________________
ज्ञानस्य तत्तत्परिवृत्तितस्तु, स्वयं निजात्मा परिवृत्तिमेति । मृद्दव्यपर्यायविनाशतः स्यारक्षयस्त्ववश्यं ननु मृत्तिकायाः ॥११४ ॥ न मृत्तिकाऽसौ परिवर्तते तु, भवेत्कथं तक्षणिकोऽयमात्मा । पर्यायतोऽयं तु भवेदनित्यो,
द्रव्यार्थिक नीतिदले तु नित्यः ॥ ११५ ॥ नित्यानित्योऽयमात्माऽस्ति विविच्य हृदये वह । स्यादादमतबोधेन चिदानन्दश्रियं भज ॥११६॥
आत्माऽस्ति किम्वस्तु तदस्य भानं, प्रवर्तते यस्य न चित्तदेशे। इतस्ततो धर्मपदं वदन्तो, भ्रमन्ति बाह्यात्मधियो मनुष्याः ॥ ११७ ॥ न जातिवंशेषु चकास्ति धर्मो, बाह्यक्रियायां नच कोऽपि.धर्मः। विनात्मतत्त्वग्रहणं तदेत, द्वाह्यात्मबोधायतनं चकास्ति ॥११८ ॥ पुण्योदयात्सद्गुरुसंगमः स्याद्विना प्रयासेन जगत्सु विज्ञाः । !!!
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com