________________
॥ आत्मस्वरूपग्रन्थः ॥
--***-- आत्मस्वरूप: समुदति येन, येनाऽऽत्मबोधश्च विकाशमेति । प्रणम्य शंखेश्वरपार्श्वनाथ, मात्मस्वरूपं विदधामि शास्त्रम् ॥ १॥ शुद्धोऽथ बुद्धः परमः परात्मा, . विनाशशून्यः सच चित्स्वरूपः । अखण्डआनन्दगुणो विभुश्च, विज्ञानरूपश्च सुखस्वरूपः ॥२॥ परत्वजातिः परमात्मवाच्या, ध्येयस्वरूपश्च गुणैकधाम । ध्यानेन सिद्धस्य सुखंकरस्य, ध्याता भवेत्सर्वगुणकधाम ॥३॥ स्थाद्वादसिद्धान्तविकाशकारी, निरञ्जनः पूर्णसुखस्वभावः । तीर्थकरध्यानगुणस्तवाभ्या,
मपेति तरतरं विभावः ॥ ४ ॥ स्वकर्मोपाधियोगेन, स्वात्मभेद उदीरितः । कर्मोपाधिर्यदा नश्येद्भेदभावस्तदा व्रजेत् ॥ ५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com