SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ( २३ ) ॥२१९॥ ॥२२१ ॥ बन्धःस्याद्वेषरागाभ्यां कर्माधीना हि देहिनः । द्विडू रागौ भावकर्माsस्ति, द्रव्यं कर्म तथाष्टकम् ॥ २१७॥ अनादिकालतः कर्म -, बन्धोऽस्ति सममात्मना । कर्मतो जन्ममृत्यादिः, पुण्यपापेऽपि कर्म हि ॥२१८॥ पुण्यं पापं द्वयं कर्म, तद्भेदा बहुधा मताः । जीवो भ्रमति संसारे, सर्वयोनिषु कर्मणा शुभं जन्माऽस्ति पुण्येनाऽशुभं जन्म च पापतः । पुण्यैः श्रेष्ठगतिः सौख्यं, पापतो दुःखदुर्गती ॥२२०॥ गतागतं स्वकर्मभ्यः कीर्तिनिन्दे च कर्मतः । शुभकर्मोदयाच्छर्मा, शुभं चाशुभकर्मतः उदये यानि कर्माणि, न तद्भोगं विना गतिः साम्येन भोगतः कर्म - बन्धो नात्मा सुखी भवेत् ॥२२२॥ कर्मोदयश्च साम्येन, सूते भक्तिं च निर्जराम् । घात्यघाति तथा कर्म, घातिनाशात्प्रभु भव ॥२२३॥ ज्ञानेन हन्यते कर्म, स्वोपयोग र्गुणोदयः । सोपयोगी स्वबन्धः स्या- दन्धः कर्मोदयान्न सः ॥ २२४ ॥ शुभाशुभानि जन्मानि तेषां कर्मेत्र कारणम् ॥ कर्मान्तान्मुच्यते स्वात्मा, ज्ञानी न विषयाश्रितः ॥२२५॥ सर्वगर्वहरं कर्म, जीवा नृत्यन्ति कर्मतः ॥ बलि च पुद्गलं कर्म, व्यक्रं कर्म शुभाशुभम् ॥२२६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034989
Book TitlePanch Granth Sangraha - Adhyatma Gita - Aatmsamadhi Shatak - Jivakprabodh - Aatmaswarup - Parmatma Darshan
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1925
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy