________________
(२१)
मद्वचस्त्वखिलं सत्यं, कृत्यं धर्मजयस्य च ॥ प्राचारे कुरु मद्वाक्यं, राजन् धर्म न विस्मर॥१६७॥ न जैनधर्मनाशोऽस्ति, जैनोस्त्वनन्तकालिकः ॥ कदाग्रहस्य दूरीतिः, सत्यादिगुणतो जयः ॥१९८॥ कदाग्रहेण शान्ति न, मिथ्याभ्रान्ति हि वर्धते ॥ दूरं कदाग्रहाद्भूत्वा, जैनधर्मोद्यतो भव ॥ १६९ ॥ त्यजाल्पविषयक्लेशं, दुष्टयंत्रं विनाशय ॥ अग्रमात्मदशा चेत्स्या-, त्सूक्ष्मतत्त्वं च भासते॥२०॥ ज्ञास्यसि सूक्ष्मतत्त्वं त्वं, चलात्मज्ञानतः पुरः॥ म्रियतेऽनात्मबोधेन, न स आत्मा म्रियेत यः ॥२०१॥ अज्ञानिनस्तु रोदन्ति, मृत्यो बिभ्यति मोहिनः ॥ न धर्ममरणे भीति, आनिनां रीति रीदृशी ।२०२॥ धनादयो बहिर्द्रव्यं, तत्र स्वार्थं न मन्यते ॥ वेत्ति जीविकया स्वार्थं, परमार्थस्तु तद्धृदि ॥ २०३ ॥ निर्धर्म जीवनं व्यर्थ, दुष्टवृत्तिं निवारय ॥ धर्मेणात्मबलोत्क्रान्ति, नद्धिरात्मद्धि मन्तरा ॥२०४॥ सन्ध्या रागसमा सैषा, जर्द्धिस्तु विनश्यति॥ जडर्द्धि विद्धि मिथ्या हि, स्वात्मौ मन आनय॥२०५॥ जडेषु नास्तिको वेत्ति, ऋद्धि मात्मनि चास्तिकः॥ नास्तिको रक्षसातुल्यो, धर्मे जैनोऽस्ति चास्तिकः॥२०६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com