________________
(१९) हृदि यस्यानुरागोऽस्ति, मत्समः सोऽतिभाग्यवान् ॥ ईते वेड्यखिलं वस्तु, विश्वासीतिविचारतः ॥१७७॥ मच्छूद्धया बलं शक्तिः सर्वशक्तिश्च जायते ॥... नमच्छ्रद्धां विना धर्मः, शर्म मच्छ्रद्धया भवेत् ॥१७८॥ कुरु सन्तजने प्रेम, यापयोत्साहिजीवनम् ॥ कुरूपयोगतः कार्य, धर्माद्राज्यं न चापरम् ॥१७॥ उद्यमान निवर्तस्व, कर्तव्यान्न च्युतो भव ॥ जीव !!! विश्वोपयोगेन, सत्यज्ञानक्रिये धर ॥१८॥ रजस्तमःक्रियाधीभ्यां, नात्मधर्मः प्रकाशते ॥ सत्तबुद्धिक्रियाभिस्तु, स्वात्मधर्मः प्रकाशते ॥१८॥ सर्व सापेक्षया विद्धि, मिथ्यात्वं निरपेक्षितम् ॥ . सापेक्षयाऽखिलं सत्य, मसत्यं निरपेक्षया ॥ १८२ ॥ सापेचनयदृष्ट्या तु, गुणसृष्टिः प्रकाशते। सापेक्षो जैनधर्मोऽस्ति, मदांसि प्रमाणय ॥१८३॥ कुतर्क दूरतो मुञ्च, गर्वाटोपौ परित्यज ॥ श्रद्धा प्रीति हि सा भक्तिः, स्वधर्मो जायते तया ॥१८॥ निश्चयव्यवहाराभ्यां, स्थिरः स्यात्सर्वतः स्थिरः ॥ मेरुवद्धर धैर्य त्वं, न वैरं कुरु कैरपि ॥१८५॥ श्राचार व्यवहारौ तु, त्याज्यौ नैव स्वधार्मिकौ ॥ यदंशै जर्जीयते माया, जैनधर्मस्तदंशतः ॥१८६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com