SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( ७७ ) विनयं कुरु वृद्धाना-मन्तदोष निवारय । प्रमाणं कुरु साधूनां, मन्नाम स्मर लावतः ॥ १६६ ॥ ज्ञानादिनिर्महान्योऽस्ति, तस्य त्वं विनयं कुरु । जैनधर्मस्य मूलं हि, विनयं विद्धि निश्चितम् ॥१६७॥ गृहाण विनयैर्विद्या, शक्तीश्च विनयैः पुनः। विनयेन शुनप्राप्ति-गर्वाऽज्ञाने च गच्छतः ॥१६॥ सद्रागो मातृपित्रादौ, विनेयानांहि मुक्तये । गुरोविनयतो ज्ञानं, वृद्धिवेला प्रजायते ॥ १६९ ॥ क्लेशका यत्र तत्रैव, पशवो विनयाहते। नश्येडि विनयात्पापं, मत्प्रेमा विनयं धरेत् ॥१७॥ संशोभते नो विनयं विना जनः, स्वच्छं न चित्तं विनयं विना नवेत् । अवाप्यते यद्विनयात्सुदर्शने, नावाप्यते तत्कृतकोट्युपायतः ॥१७१ ॥ सेवस्व जीवमात्रं त्वं, हृष्टा विनयकर्मसु । वन्दस्व महतां पादौ, सोत्साहा स्या गुणग्रहे॥१७॥ प्रीत्या च कुरु सत्कारं, पृच्चाऽथ कुशलादिकम् । उपकुरु विना स्वाथे, पराथे जीवनं वह ॥ १७३ ॥ स्वार्थ विनोपकुर्वन्तः, शोकं गृहन्ति नो नराः। स्वार्थ प्रत्युपकाराय, तत्र नो परमार्थता ॥ १७४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy