________________
। ७३ ) श्रद्धाप्रेमसु मद्भक्ति-र्न भक्तिः संशयास्पदे । शुद्धप्रेम्णाऽस्ति मदृष्टि-दैवी सृष्टिस्ततो जवेत् १३८ श्रद्धाप्रेमबलाद्भक्ति-स्तामृते निष्फलं तपः। श्रद्धालवो नरा नार्य-स्तेषामत्र फलं नवेत्॥१३९॥ श्रद्धालवो नरा नार्य-स्तत्र मद्भक्तिशक्तयः । श्रद्धाप्रेमैव मद्रूपं, तद्विना दुःखमुद्भवेत् ॥१४० ॥ मन्नाम्ना जजते मां यः, सर्वशक्तीः समश्नुते । मन्नाम्ना यत्र रागः स्या-त्सोऽभङ्गः सर्वकर्मसु ॥१४१॥ मयि श्रद्धातिरागी यो-महानाग्यमवेहि तम् । मत्प्रेमिणश्च ये जैना-स्ते जयं चाऽत्र विन्दते॥१४२॥ बुद्धिवादं परित्यज्य, सत्कार्यप्रेममानसा । भूत्वा मदाज्ञया गच्छ, पश्याऽऽत्मानं सुदर्शने ॥१४३॥ बाह्यान्तर्वर्तनं चैकं, मद्भक्तानां सुनिश्चयः । सत्यं विवेकमाधाय, वर्त्तते चतुरो जनः ॥ १४ ॥ आसक्तिं विषये नैव, सत्कर्म नित्यमाचरन् । अतिभोगेन रोगः स्या-दात्मनिर्बलता नवेत् १४५ धर्म्यभोगेन योगस्य, साधना मम रागिणाम् ।। थाप्नुवन्ति न ते शोकं, विशालदृष्टिधारकाः १४६ गाम्भीर्यमब्धितः पूर्ण, मिच्छा दुर्व्यसनस्य नो। नेच्छन्ति मां विना किंश्चि-ल्लभन्ते भकिमीशाः १४७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com