________________
यात्मोपयोगै निखिलक्रियाणा
माचारतो धर्म उदेति पूर्णः । आत्माऽनुसारं मनसः प्रवृत्त्या, __ भवेद्विशुद्धोऽतितरां तदाऽऽत्मा ॥ ८१ ॥ पूर्णो भवेच्छेन्मनसो विकाश__ स्तदा नवेदाऽऽत्ममहाविकाशः। मनोविकाशाय हि निश्चितं त्वं,
प्राप्तिं च जानीहि निजेन्द्रियाणाम दयां च दानं च दमं कुरुष्व, __ तथाऽऽत्मशक्तीः सहसा लभस्व । लब्ध्वाऽऽत्मशक्तीः कुरु धर्मकार्य
निजाऽऽत्ममुक्तिं च कुरु प्रकामम् चित्तेन्द्रियशरीरैर्हि, आत्मा पूर्णः प्रकाशते । वाङ्गनकायसंयोग-आत्मयोगस्तु तबलात् ॥ ८१ ॥ ब्रह्मचर्यैर्वपुर्वीर्य, लब्ध्वा धैर्य प्रकाशय । थात्मशक्तिरनन्ताऽस्ति, कायशक्त्या प्रकाशते ॥५॥ नीरोगं रक्ष कायं तद्, योगियोग्यो भविष्यसि । रक्ष चौषधिवायुभ्यां, योग्यसात्त्विकलोजनैः ॥ ८६ ॥ अमूल्यं च वपुर्ज्ञात्वा, धर्माऽर्थ देहयोग्यता । वाचः सारं स जानाति, आत्मशक्तिं समभुते ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com