________________
॥३१॥
( ५७ ) सर्वाणि कर्माणि सदाचरन्तो मन्नाम ये केऽपि मुदा भजन्ति विश्वास मारोप्य मयि प्रकामं कुर्युः क्रियां ते न भवन्ति दासाः । मद्भक्तये ये च नवन्ति योग्या स्तान्संविधातुं स्वशिरोऽपि देयम् दुःखानि मह्यं खलु ये सहेरन् भुञ्ज्युश्च ये कर्म तथाप्य कर्म । धरन्ति नो ये जडवस्तुदैन्यं जैनाश्च ते दुष्टगुणान्जयन्ति जैनास्तु ये शत्रुचयं जयन्ति सम्यक्त्वतो ये खलु निर्वहन्ति । श्रीजैनधर्मव्यवहारकार्य रक्षेत्सदाचारविचारराशिम् यथा समर्थ समयानुसारं जैनांश्च ते ये प्रतिपालयन्ति । ते सर्वकालेषु जवन्ति जैना नायर्यो नरा ये खलु मां भजन्ति वेषक्रियाणां तु मृषैव भेदो न तत्र खेदं कुरुते जनो यः।
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com