________________
( ५३ )
स्वर्ग महापापजनाश्च यान्ति त्वत्सेवका नो नरकं विशन्ति प्रभो परब्रह्म हि साकृतिस्त्वं देहं विधायोपकृतिं वितन्वन् । तत्त्याग्यवस्थाप्रथमं प्रभो मां सुदर्शनां शिक्षय धर्मतत्त्वम् प्रपीयमानं वचनामृतं ते सूते सुखं दुःखमपाकरोति । वीरप्रभो देह्युपदेशमेवं नश्येद्यतः क्लेशगणो मदीयः वीरप्रभुश्चेति वचो बभाषे सुदर्शने त्वं शृणु हे गुणज्ञे । श्री जैनधर्मोऽस्ति जगत्सु सारः शुनानि तस्याचरणानि सन्ति त्वं सत्यबोधाssचरणानि रक्ष श्वसश्च मिथ्याचरणं जहीहि । श्रीजैनधर्मस्य जयो जगत्सु ज्ञानेन दुष्टाचरणं विनश्येत् न जैनधर्माद्दहिरस्ति धर्मः कोऽपीति नीहि परं रहस्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
www.umaragyanbhandar.com