________________
( ४५ )
॥ १२२ ॥
यो नन्दिवर्धन नमेश्च सहस्रवारं स्तूयादपारमथ मां विधिभिः समर्चेत् । भूत्वा प्रमोदनपरोविदधच्च कर्म स्वस्वाऽधिकारकरणे प्रभवेच्च जव्यः हितकृन्निर्मितः सत्यं, ग्रन्थोऽयं शोकवारकः । मर्तॄणां मृत्युतः पश्चाद्भणितः सुखकृद्भवेत् ॥ १२३ चिन्ता दूरमुपैति मोहसहितः शोकोऽपि याति क्षयं, धर्मप्राप्तिकरा भवन्ति पठना न्नायों नरा भूतले । वाणीयं जयकारिणी जिनमहावीर प्रभोर्वर्त्तते, श्री सूरीश्वरबुद्धिसागरकृतो ग्रन्थो भवेच्छ्रेयसे १२४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com