________________
( ३५) सुताः षष्टिसहस्राणि, मृताः सर्वेऽपि चैकदा। मुमूर्छ सागरश्चक्री, वैराग्यज्ञानतोऽतरत् ॥६५॥ बहुवर्ष मयापयच्छुचा मरुदेवी निजपुत्रमोहतः अजवगतमोहिनी यदा क्षणतो मुक्तिपुरी मथाविशत् ६६ रामो मृतो हेति जगाद देवः श्रीलक्ष्मणप्रीतिपरीक्षणार्थम् । निशम्य हा भ्रातरिति ब्रुवाणो, जही शरीरं नृपलक्ष्मणोऽपि
॥६७॥ केनाऽपि सार्द्ध न च कोप्यगच्छ, स्वस्वं च वाटं सकला अगच्छन् । राजा महान्रावणसन्निभोऽपि, प्राणांश्च हित्वा नरकंजगाम
॥ ६८॥ कर्मानुसारं परयोनिमायात्, भावी न संयात्यपसारितेऽपि । येऽकम्पयन्दमामपि पादघातै, स्तेऽपि प्रयाता अथच प्रयान्ति तेषां शरीरस्य नचाऽपि नानो, न वर्ततेऽपि स्मृति रत्रकाले। असंख्यकालस्य जिनेश्वराणा मद्याऽपि तावन्नच नामतस्थौ
॥ ७० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com