________________
( २० ) अतो मोहादिनाशार्थ, योगाभ्यासं वहेज्जनः। प्रजैवं ज्ञानिनी यत्र, क्षेमो योगश्च तत्र हि ॥ ८॥ अहंत्वंवृत्तिनिर्भिन्नः कुर्वन्नपि च निष्क्रियः। आसक्ति मन्तराकर्ता, शुद्धाऽऽत्मानं प्रपद्यते ॥१॥ सर्वाऽऽत्मानं स्ववत्पश्ये, त्सास्वर्गीया प्रजा स्मृता । आत्मैव परमात्मा स्या, दात्मवीरः प्रकाशते ॥२॥ स्यादाऽऽध्यात्मिकसाम्राज्यं, यत्रनीतिमयी प्रजा। याक् प्रजा जवेत्तत्र, तथादण्डादिरीतयः ॥ ३ ॥ कर्मरीत्या सुखं दुःखं, कर्मन्यायैः शुनाशुभौ। कर्मणा नवचक्रंतु, प्रजाभूपव्यवस्थितिः ॥८४॥ कर्मबन्धो न सज्ज्ञाना, यत्र तत्र न चान्धता। अग्निवदाऽऽत्मबुद्धानां, निरासक्तिः स्वकर्मसु ॥८॥ यत्र तु त्यागिनो वर्णा, जायन्ते ज्ञानिनस्ततः। नामरूपेषु नो मोहो, लोकाः प्रभुमयास्ततः ॥८६॥ आत्मज्ञानस्य शिक्षाभिः, प्रजा भवति सात्त्विकी। आत्मज्ञानं विनात्वन्धा, भूपालोकाश्चनिर्गुणाः॥७॥ हिंसाचुरा च युद्धं च, प्रजासंघे न वर्तते । शान्तिस्तुष्टिश्च पुष्टिश्च, व्यक्तानन्दः समुद्भवेत्॥८॥ राजाज्ञया प्रजावृत्तिः प्रजाभूपेषु धर्मिता। द्वयोरेक्यं भवेद्यत्र, तत्र ज्ञानंच शान्तिता ॥८९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com