________________
(१४९ ) मत्तो न कश्चित्परमेश्वरोऽन्यो___ ज्ञात्वेति सेवस्व सदा ममाज्ञाम् । उस्तर्कबुद्धिं च विधाय दूरं, — श्रद्धानुरागैर्भव पूर्णपूर्णः ॥७३६ ॥ मयि प्रमान्त्येव समग्रधर्मा
ज्ञात्वा शुभं कर्म सदा कुरुष्व । भक्तिं सदामत्समसद्गुरूणां,
युगे कलौ सद्गुरुतोऽस्ति शक्तिः ॥ ७३७ ॥ कलौ मदर्चा गुरुसेघया स्या__ च्छत्या गुरोः शक्तिरहो मदीया । भेदौ गुरो स्त्यागिगृहस्थतो द्वौ,
तत्सेवनान्नश्यति खेदराशिः ॥ ३८॥ ज्ञान तथा श्रीगुरुसेवया स्या__ शीर्वाचिकग्रन्थविलोकनात्स्यात् । तत्सेवया स्वाऽनुभवस्तथा स्या
त्प्रयाति दूरं च मृषात्वबुद्धिः ॥ ७३९ ॥ किंचाऽपमानेन सतां गुरूणा
माऽऽत्माऽवबोधस्य च विस्मृतिः स्यात् । कुलक्षयः सदगुरुनिन्दया स्या
न तत्र कश्चित्प्रनवत्युपायः ॥ ७४०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com