________________
(१४५ ) विधाय पापं न च मानमिच्छ,
नाऽसत्यमुत्ताऽत्र विधेहि दानम् । असत्यमाडम्बरमुज्जहीहि,
धृत्वा क्षमा शूरजनो भव त्वम् ॥७१६ ॥ यो वाऽपकारोऽस्त्युपकारकर्तु___ स्तस्योपरि त्वं च कुरूपकारम् । महान्भवेद्यः सहनं करोति,
शुभस्य कर्ता जगवान्समस्ति ॥७१७ ॥ देहः पतेन्न म्रियते महाऽऽत्मा,
देहः पतेत्किन्वमरो महाऽऽत्मा। मनुष्यजातिं न च धिक्कुरु त्वं, : निन्दा तथा नो शृणु कस्यचित्वम् ॥७१८ ॥ परोक्षनिन्दा परिवर्जनं च, __ गुणोपरि त्वं धर पूर्णरागम् । कुरु प्रशंसां स्वरिपोर्गुणानां, __तस्मादनावो न च ते गुणानाम् ॥७१९ ॥ सत्याच्च्युतान्रक्षति नैव शस्त्रं,
नाऽस्त्रं पुनर्नाशयते सुसत्यम् । सत्यं पुरस्कृत्य चलन्तु लोकाः, .. पदे पदे तेन शिवानि सन्ति .॥ ७२० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com