________________
(१३८ ) सुदर्शने साधुपदं हि सारं, ___ समुद्धृति यजगतोऽस्ति तेन । सत्यं गृहस्थाश्रमसत्प्रकाशं, __कर्तुं यतस्त्यागिपदं त्ववश्यम् ॥ ६८१ ॥ अङ्गीकरिष्यामि सुसाधुधर्म, __ कार्याणि तीर्थस्य मुदा विधातुम् । ममाऽस्ति कार्य जगतां जनानां,
शान्ति च विश्रान्तिमथो विधातुम् ॥ ६८२ ॥ याध्यात्मिकव्यष्टिसमष्टिरूपा, ___ सम्यक्त्वदृष्टि हि सुदर्शनाऽस्ति । पुरस्तवैवं प्रियसेवकानां,
बोधात्सुखं क्षेममथो सदा स्यात् ॥६८३ ॥ सुदर्शनेऽतो भगिनी ममाऽसि,
स्वरोधनात्सर्वजनस्य हर्षः । जानीहि मां साम्प्रतमाऽऽत्मवीरं
कुटुम्बवृन्दं तु समग्रविश्वम् । ॥ ६८४॥ स्वं मानसं चाऽऽस्मवशं प्रकुर्या___ स मुक्तिसौख्यं झटिति प्रयाति । कुर्वन्ति मां ये शरणं मनुष्या
भयं च दुःखं च न ते लभन्ते ॥६०५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com