________________
( ११३ ) काले ततस्तद्विशदीकरोति, __ तीर्थङ्करः स स्वयमेव भूत्वा
॥ ४९४॥ रागरोषविनाशार्थ-महतां जन्न जायते । विद्धि तीर्थकरं ब्रह्म, चाहन्तं गुणसागरम् ।। ४९५ ॥ मिथ्यात्वादिविनाशार्थ-महतां जन्म जायते । दुर्गुणव्यसनं हन्तुं, धर्मतीर्थ प्रकाशते ॥ ४९६ ॥ दुश्शास्त्रनाशाय तथाऽऽर्यशास्त्र__ प्रकाशनार्थ जगदीशदेवः। मिथ्यात्वभावादिकदोषहन्ता, विज्ञानशास्त्रादिकसर्ववेत्ता
॥४९७॥ तीथङ्करोऽर्हन्भगवान्स बुद्धः,
शुद्धः स्वयं शुद्धविनिश्चयेन । कलौ मदाज्ञां प्रकुरु प्रमाणं, __ मामन्तिमं तीर्थपति च विद्धि ॥४९८॥ सुदर्शने !! वेदय मां त्वमेवं,
समग्रविश्वोद्धतिमाविधातुम् । ममावतारोऽस्ति विनिश्चयेन,
त्वं विद्धि सत्वप्रकृतिं दधानः ॥ ४९९ ॥ विश्वासकी भव मत्स्वरूपे, विसृज्य मत्तोऽन्यविकल्पजालम् ।
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com