________________
(१०८) दुग्धाज्यवदहं व्याप्तः, काष्ठे वह्निर्यथा तनौ । विश्वस्मिन्सत्तया ज्ञात्वा, भजध्वं मां नराः स्त्रियः॥४६४॥ नामरूपादिभिन्नोऽहं, महावीरो जिनेश्वरः । स्वाऽऽस्मानं वेत्ति यश्चैवं, स शान्ति सुखमश्नुते॥४६५॥ ब्रमन्त्रान्त्या चतुर्दिछ, कुर्वन्नाशामनेकशः । न तिष्ठति जनवातः, पारंमच्छ्रद्धया व्रजेत् ॥ ६६६ ॥ श्रद्धया मम योऽतिष्ठ-देहनावात्स वै मृतः। अजीवदाऽऽत्मरूपेण, भूत्वा स मृतजीवनः ॥४६७॥ नित्याऽऽत्मानो यतो जैना-न म्रियन्तेऽपि मारिताः। देहप्राणा विनश्यन्ति, चाऽऽत्मा न म्रियते स्वतः||४६८॥ यन्नाऽऽत्मा म्रियते सत्यं, तत्कृत्यं विद्धि भावतः । निश्चयाम्रियते नाऽऽत्मा, तज्ज्ञस्तु सत्यकर्मवान्॥४६९॥ अविनाशी त्रिकालेऽपि, सोऽनन्ताऽऽनन्दबोधवान् । हन्यते पञ्चभूतैर्न, वेत्ति यः सच निर्भयः ॥ ४७०॥ आत्मानं कोऽपि नो हन्ति, चाऽऽत्मानं कोऽपि नाऽऽहरेत्। नाऽऽत्मनो जन्ममृत्यू स्तः, कर्ता हर्ता स्वयं हि स॥४१॥ आत्मा जैनो जिनो ब्रह्मा, हरो विष्णुमहाँश्च सः । मद्धर्मास्त्वाऽऽत्मपर्यायाः, सर्वे धर्मा इह स्थिराः॥४७२॥ रूप्यरूप्ययमाऽऽत्माऽस्ति, गुरुदेवस्वरूपकः । आत्मनो जैनधर्मे तु, सर्वे धर्माः प्रमान्ति हि ॥४७३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com