________________
( ९० )
विचर तीर्थसेवाये, महासंघं विलोकय । संघयात्रां प्रकुर्वंतु, सेवन्तां जोजनादितः ॥ २९२ ॥ कुरु संगं सुसाधूनां, तरन्तु भववारिधिम् । जैन धर्मिविनाशाय, परधर्मी यतेत चेत् ॥ २९३ ॥ धर्मयुद्धंतदा कार्य्यं, शस्त्राद्यैर्बलतस्तथा । कुरु व्यर्थ नवा युद्धं, क्रुद्धो न स्या अकारणम् २९४ एकीभूय सहस्व त्वं, शिक्षणानि लभस्त्र च । समर्पयत चात्मानं, न मोहं संशयं कुरु ॥ २९५ ॥ ये संकीर्णविचाराहि, संघाऽधोगतिकारकाः । स्वातन्त्र्यस्य च हर्तारो - दूरं वसत तत्ततः ॥ २९६ ॥ नव्य जीवनवेोढारो । विश्वस्मिन्व्यापका ये च तानाचरत हेजनाः ॥ २९७ ॥ जीर्णाः संकीर्णतां प्राप्ता - मलीनाः शक्तिनाशकाः । अधर्म्याः पातकर्तार - स्तानाचान्विमुञ्चत ॥२९८॥ शिक्षणं जैनधर्मस्य, लभन्तां प्रेमतो जनाः । याच संघेषु मे भक्ति - नीतिशक्तिं तनोति सा ॥ २९९॥ यत्र संधे ममाज्ञाऽस्ति, कल्याणं तत्र वर्तते । यत्र संघेऽस्ति मे गान - मनुभृतिस्तथा सुखम् ॥ ३०० ॥ यत्संघानां मयि प्रेम, योगमौ ततो ध्रुवम् । कल्याणकोत्सवो यत्र तत्र दुःखं न जायते ॥३०१ ॥
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com