SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ 700 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. वेदः उपक्रमः यत्पादरजसस्सङ्गाच्छिलाऽभूदबला द्रुतम् । नौमि तं जानाजानिमप्रमेयमहर्निशम् ॥ यस्य स्मरणमात्रेण भवन्ति विगतभ्रमाः। जनास्तं श्रीविरूपाक्षं गोरीकान्तमहं भजे ॥ यद्भाष्याद्यवलोकेन मूढास्सर्वेऽपि पण्डिताः । भवन्ति तान् शङ्करार्यान् नमामि ज्ञानसिद्धये ॥ विद्यारण्यमुखान् सर्वान् यतीन् नत्वा यथामति । भाष्यं कारष्ये सन्ध्याया वेदवेदान्तमार्गतः ॥ अथ कदाचन वासुदेवानन्दसरस्वतीपदकमलसमाराधको विबुधानन्दसरस्वतीनामकोऽहमाश्रमधर्ममनुसृत्य ग्रामैकरात्रविधिना पर्यटन् विजयमङ्गलं नाम अग्रहारमगमम् । अर्थापारज्ञानेन वेदाध्ययनं निरर्थकमिति जानद्भिस्तत्रत्यैर्जनैः प्रतिदिनं स्वानुष्ठीयमानसन्ध्याया अर्थावबोध कमेकं ग्रन्थमारचय्यास्मभ्यं देयमिति क्रियासमभिहारेण प्रार्थितः भाष्यमिदं ग्रथितुमारभम् (भे) ॥ ननु सन्ध्यावन्दनं कथंभूतेन कर्तव्यम् । उच्यते-यज्ञोपवीती नित्योदकस्सन्ध्यामुपासीतत्याश्वलायनके तथा दर्शनात् यज्ञोपवीतिना कृतस्नानन मार्जनादिकं कुर्वता प्रदक्षिणं सन्ध्यावन्दनं कर्तव्यम् ॥ उपसंहारः प्रकृते तु सन्ध्यावन्दनस्य बहलकालातिक्रमणे सप्तरात्रात् पूर्वमती. तसन्ध्यानुष्ठानं प्रायश्चित्तपूर्वक कार्यमिति वक्तुं न शक्यते, तथा शिष्टाचाराभावात्, स्मृतिकारैरनङ्गीकाराच्च । किन्तु यथोक्तप्रायश्चित्तमेव कृत्वा तत्कालोचितानुष्ठानमेव कार्यामति स्मृतिविदां स्थितिः ॥ कृत्याऽनया महादेवो भवानीकमिता प्रभुः। प्रीयतां मम सर्वात्मा सर्वलोकेश्वरेश्वरः ॥ किश्च श्रीशङ्कराचार्यविद्यारण्यमुखा बुधाः । अनुगृह्णन्तु मां विद्यादानेन प्रत्यहं भृशम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाणपारावारपारीणज्ञानानन्दमुनीश्वरान्तेवास्यन्यतमश्रीवासुदेवानन्दसरस्वतीशिष्यविबुधा. नन्दसरस्वतीविरचितं सन्ध्याभाष्यं समाप्तम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy