________________
मन्त्रसंग्रहः, भाष्यचं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 693
विनायकपदाम्भोजं विधिशंकरवन्दितम् । वन्दारुजनमन्दारं वन्दे स्यन्दन्मरन्दकम् ॥ ] यस्मिन् दर्पणबिम्बजृम्भितपुरीसंदर्भतुल्यं जगत्
भातं यत्परसंविदा यत इदं रूप्यादिवल्लीयते । यस्याज्ञानविजृम्भिता परभिदा वारीन्दुभेदादिवत् तं भूमानमुपास्महे हृदि सदा वामार्धजानि शिवम् ॥
श्रीराघवेन्द्रदेवज्ञवंश्यः श्रीकृष्णपण्डितः ।
प्रकाशयाम्यहं स्पष्टं सन्ध्यावन्दनपद्धतिम् ॥ तत्र तावत्सन्ध्यावन्दनं नित्यं 'अहरहस्सन्ध्यामुपासीत' इति श्रुतौ वीप्सावगमात् ॥
उपसंहारः
अकाले चेत्कृतं कर्म काले प्राप्ते पुनः क्रिया। कालातीते तु यत्कुर्यादकृतं तद्विनिर्दिशेत् ॥ इति । अस्यार्थः-अकाले अनागतकाले यदि कर्म कुर्यात् तस्य मुख्यकाले प्राप्त पुनः क्रिया पुनः करणं भवेत् । कालातीते तु गौणकालातिपत्तौ तत्कर्म न कुर्यादिति, किन्तु उक्तप्रायश्चित्तमेव कुर्यात् । तदुक्तम्
नित्यानामत्यये गौणः काल आगामिकालतः। गौणेऽतीते संचितं स्यान्नातीतं मुख्य आगते ॥ इति ।
प्रतिपाद्यविषयः
No. 619 कोशे द्रष्टव्यः.
वक्तव्यविशेषः
कोशेऽस्मिन्निदं भाष्यं सन्ध्याकालात्ययप्रायश्चित्तनिरूपणपर्यन्तं दृश्यते । अत्र ग्रन्थादौ दृश्यमानं हंसपादान्तर्गतं पद्यद्वयं कोशान्तरेष्वदशनात् लेखकालेखितमिति भाति ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com