SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ 688 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वदः उपक्रमः इह खलु सकलसत्कर्मपरिगणनायामादितः परिगणनार्हस्य सन्ध्या वन्दनकलापस्य स्वरूपविशेषजिज्ञासा यथाकथञ्चिद्विगुणोऽपि श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । इति भगवदुपदेशात्स्वधर्मत्वेन श्रेयसीति हृदि निधाय निरन्तरशुश्रूषापरितोषितसदाचार्यमुखकमलोदीरितसिद्धान्तसारसागराग्निर्गळितमतिरहस्यामृतमाकलय्य यथायोगं प्रकाश्यते । तत्र तावत्सन्ध्यावन्दनं नित्यम्, 'अहरहस्संध्यामुपासीत' इति श्रुतावहरहरिति वीप्सावगमात ॥ उपसंहारः आत्महादौ तथा भूमि स्पृष्टुति वचनात् । नक्षत्रं च तथा सूर्य द्विजानप्यभिवादयेत् । कनिष्ठानपि वेदज्ञान सन्ध्याकालेऽभिवादयेत् ॥ विना पुत्रं च शिष्यं च दौहित्रं दुहितुः पतिम् । इत्यादिवचोभिस्सन्ध्यादेवताभिवादनस्यानुक्तत्त्वात् द्विजाद्यभिवादनस्योक्तत्वाच्च तदभिवादनं न प्रस्तुतमिति वाक्यार्थः, ननु (तु) सन्ध्याया गरीयस्या अभिवादनमस्त्विति ॥ श्रीमान् राघवदैवज्ञवंश्यः श्रीकृष्णपण्डितः ॥ कारयामास हि स्पष्टं सन्ध्यावन्दनपद्धतिम् । पूर्णानन्दस्वरूपाय दक्षिणामूर्तये नमः ॥ प्राज्ञान प्राज्ञान् करोमीति दीक्षिताय स्वचिन्तया ॥ प्रतिपाद्यविषयः अत्र सन्ध्योपास्तेनित्यत्वोपपादनपूर्वकं तस्य मन्त्रार्थपरिक्षानपूर्वकानुष्ठेयत्वं संसाध्य तदनुष्ठानकालफलादिकं निर्वर्ण्य आशौचे सन्ध्यानुष्ठानप्रकारं प्रकाश्य सन्ध्याप्रयोगकथनपूर्वकं संन्ध्योपासनविनियुक्तमन्त्राणामर्थश्च अद्वैतसंप्रदायानुरोधेन सम्यग्विशदीकृतो दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy