SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 594 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः उपक्रमः तदिति द्वितीयैकवचनम् । अनेन जगदुत्पत्तिस्थितिलयकारणहेतुभूतमुपनिषदि कथ्यमानं निरुपमतेजः सूर्यमण्डलाभिधेयं परं ब्रह्म अभिधीयते । सवितुरिति षष्ठयेकवचनम् | 'पूङ् प्राणिप्रसवे ' इति धातों रूपम् । सर्वस्य भूतस्य प्रसवितुरित्यर्थः । वरेण्यं नियमादिभिरपगतकल्मषैः सततं ध्येयम् । भर्गः ' भञ्जो आमर्दने ' भृजि भर्जने' इति धातोर्वा रूपम् । सर्वस्य भूतजातस्य भर्गः भजतां पापभञ्जनहेतुभूतमित्यर्थः । भ्राजुदीप्ताविति धातोर्वा रूपम् । देवस्य दृष्टिदानादिगुणयुक्तस्य निरतिशयप्रकाशस्य इत्यर्थः । दीप्यतेः प्रकाश (शार्थ ) त्वात् । धीमहि ध्यायेमहीत्यर्थः । ' ध्यै चिन्तायाम् ' रूपेण चक्षुषा योऽसावादित्यो हिरण्मयः सोऽहमिति चिन्तयामः । धिय इति द्वितीयाबहुवचनम् ॥ उपसंहारः -- नोऽस्माकं बहुधाऽभ्यस्तभेदभिन्नदृशां तथा । प्रचोदयात् प्रेरयतु प्रार्थनैवं विशिष्यते ॥ यो देवः सविताऽस्माकं धियो धर्मादिगोचराः । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥ इति शांकराचार्यमिदम् ॥ किं ज्योतिस्तव भानुमानहनि मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने किं तत्राहमतोऽभवं परमकं ज्योतिस्तदस्मि प्रभो ॥ भानुदपश्च नेत्रं च बुद्धिं चेति (द्धिश्चेति चतुष्टयम् । ज्ञायते येन तद्ब्रह्म तदेवाहं न संशयः ॥ प्रतिपाद्यविषयः अत्र अद्वैतमतरीत्या गायत्रीमन्त्रार्थविवरणं दृश्यते । गायत्रीमन्त्रघटितानां सुबन्ततिङन्तपदानां प्रकृतिप्रत्ययविमर्शनं च कृतम् ॥ www.umaragyanbhandar.com : Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy