________________
मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, JIYSORE 565
उष्णेन वायवुदकेन । आयुर्दा देव । आगन्त्रा समगन्महि । योगेयोगे । सुश्रवस्सुश्रवसम् । पारी त्वाऽग्ने । इमस्तोममर्हते । आयुष्यं वर्चस्यम् । मयि पर्वतपूरुषम् । त्रय्यै विद्यायै । धाताददातु नो रयिम् । अश्मा भव । मा ते कुमारम् । नक्तंचारण उरस्पेशान् । यद्भूमेः ऋरम् । इन्द्र जहि दन्दशूकम् । परमेष्ठयसि परमाम् । यन्मे माता । पृथिवी त पात्रम् । उक्थ्यश्चास्यतिरात्रश्च । या त एषा रराट्या तनूः ॥ हारः
ओम् ॥ प्रतिपाद्यविषयः
प्रश्नद्वयात्मकेऽस्मिन् प्रथमप्रश्ने-वरप्रेषणप्रभृतिसमावशनान्तपूर्वसंस्कारोपयोगिनो दंपत्याहृदयसंसर्गफलकहोमोपयुक्ताः पतिवशीकरणादिकर्मसु विनियुक्ताश्च मन्त्रा आम्नायन्त ॥ __ दितीयप्रश्ने-सीमन्तोन्नयनप्रभृत्यन्नप्राशनान्तकोपयुक्ता गृहनिर्माणग्रहगृहीताभिमन्त्रणसर्पवल्याग्रयणेशानवलिमासिश्राद्धाष्टकाश्राद्धोप - योगिनः कतिचित्काम्यनैमित्तिककर्मविशेषोपयुक्ताश्च मन्त्राः श्रूयन्ते ॥ वक्तव्यविशेषः
कृष्णयजुर्वेदीयसंहिताद्यन्तर्गताः केचिन्मन्त्राः, कतिचिदन्ये खिलमन्त्राश्चेति कृष्णयजुश्शाखापूर्वप्रयोगीयसर्वमन्त्राणामाकरभूतमिदं मन्त्र. प्रश्नद्वयामिति ज्ञायते । मध्येऽत्र ग्रन्थलोपो भूयान परिदृश्यते । मुद्रितश्चायं ग्रन्थः ॥
एकाग्निसाध्यगृह्यकर्मोपयुक्तमन्त्राणामत्राम्नानादिदमेकाग्निकाण्ड मित्यभिधीयते । एतद्भाष्यकोशेषु आदौ वैश्वदेवमन्त्रव्याख्यानदर्शनेऽपि अत्रत्यमन्त्रप्रश्नमूलकोशेषु सर्वेष्वप्यादौ वैश्वदेवमन्त्रलेखनादर्शनात् न त एकाग्निकाण्डाम्नाता इति त्रायते। अत एव श्रीहरदत्तभाष्यादौ 'आचार्या आदितो वैश्वदेवमन्त्रानधीयते' इति भाषितम् ॥
No. 516 (4280/2).
एकाग्निकाण्डः (मन्त्रप्रश्नः).
Ekāgnikāņdah or Mantraprasnah. Substance-Palm-leaf. . Character'-...Grantha. Size-17 X 1 inches. | Folios-1-42.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com