________________
मन्त्रसंग्रहः, भाष्यंच! GOVERNMENT ÖRIENTAL LIBRARY, ITSORE 563
उपक्रमः --
प्रणिपत्य महादेवं हरदत्तेन धीमता । अश्वलायनसूत्रस्थमन्त्रव्याख्या विधीयते । तत्र पाकयज्ञप्रशंसाश्चतस्रः -
मूलम्--यस्समिधा य आहुतयो वेदेन ददाश मो अग्नये यो नमसा स्वध्वरः ॥
व्याख्या--यस्समिधा यो मर्त्यः समिधा अग्नये. विभक्तिव्यत्ययः, अग्निं ददाश दाशतिर्दानकर्माऽन्यत्र, इह तु प्रीणने द्रष्टव्यः, अग्निं प्रीणयाति । य आहुती तृतीयैकवचनस्य पूर्वसवर्णः । यश्चाहुत्या अग्निं प्रीण. यति । यो वेदेन यश्च वदेन मन्त्रब्राह्मणलक्षणेन अग्निं प्रीणयति । यो नमसा यश्च नमस्कारेणाग्निं प्रीणाति । यच्छन्दश्रुतस्तच्छब्दोऽध्याहतव्यः । स स्वध्वरः स सर्वोऽपि स्वध्वरः शोभनयज्ञः ॥
उपसंहारः---
मूलम्-श्वासिनी|षिणीविचिन्वस्लिमश्नतीस्सा एतद्वो अनेन प्राणानि ॥
व्याख्या-श्वासिनाः सर्परूपा देवस्य सेना उच्यन्ते । सम्बोधने ‘वा छन्दसि' शेते पूर्वसवर्णः । वेगातिशयेन श्वासोऽतिशयितो यासां ताः श्वाासन्यः, घोषिगीर्घोषवत्यः, विचिन्वत्या हन्तव्यानिति विचिन्वतीः समनन्त्यः सह भुञ्जानाः एवंभूताः सर्परूपास्तेनाः एतच्छोणितं वः युष्माकं भागः अनेन वः प्रीणानि अथोदन्दावृत्य तत्र प्रदेश क्षरितमसृगादि ताभ्य एव निवेदयति ॥
मूलम् -श्वासिनी?षिणीविचिन्वतीस्समश्नतीस्सो एतद्वो यदु. पभोग्यं तद्धरध्वम् ॥
व्याख्या-श्वासिनीस्सा इत्यन्तं गतम् । अत्र प्रदेशे यद् उपभागयोग्यं तद्धरध्वम् । शन्तायं जपेत् ॥ व्याख्यातं शन्तातीयम् ॥
इति हरदत्तमिश्रविरचितायामाश्वलायनगृह्यमन्त्रव्याख्यायां चतुर्थोऽध्यायः ॥
D.C.M.
36*
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com