________________
504
DESCRIPTIVE CATALOGUE OF SANSKRIT MSS.
[वेदः
समासक्तं यदा चित्तं जन्तोर्विषयगोचरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ चित्तमेव हि संसारः तत्प्रयत्नेन शोधयेत् । यश्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम । विष्णुकान्तं वासुदेवं विजानन् विप्रो विप्रत्वं गज्छते तत्तुदर्शी ॥
उपसंहारः
तदेतदृचाऽभ्युक्तम् ॥ विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टऽहमस्मि । असूयकायानृजवे शठाय मा मा ब्रूयाद्वीर्यवती तथा स्याम् ॥ यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । अस्मा इमामुपसन्नाय सम्यक्परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव तेन न गुरुभॊजनीयस्तथैव चान्नं न भुनक्ति श्रुतं तत् ॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः । एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति ॥ तस्य श्रुतं तपो ज्ञानं स्रवत्यामघटाम्बुबत् । यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ॥ स ब्रह्मवित्परं प्रेयादितिवेदानुशासनम् ॥ इत्युपनिषत् ॥
॥ इति शाट्यायनीयोपनिषत्समाप्ता ॥
प्रतिपाद्यविषयः
अत्र संसृतिनिवृत्तौ चित्तशोधनमेव परमोपाय इति प्रशस्य तत्प्रसङ्गात्तुर्याश्रमस्वरूपं प्रकाश्य कुटीचकादिभेदेन तचातुर्विध्यमभिधाय एतेषां चतुर्णामपि शिखायज्ञोपवीतत्रिदण्डादिधारणं यावत्प्राणधारणमावश्यकमिति प्रतिपाद्य तद्धर्माश्च वर्णयित्वा गृहीततुर्याश्रमस्य पुनः प्रतिनिवृत्तौ प्रत्यवायमुक्ता चरमाश्रमप्रशंसनपूर्वकं गुरुमाहात्म्यं च प्रकाशितं दृश्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com