SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 335 उपक्रमः ओं पूर्णमद इति शान्तिः ॥ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम । तं गत्वोवाच । भगवन् कि देहः किं प्राणः किं कारणं किमात्मा । तं होवाच, सर्वमिदं शिव एव विजानीहि । किन्तु नित्यश्शुद्धो निर' अनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्व दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते । तद्भासकं किमिति चेदुच्यते । सच्छन्दवाच्यमविद्याशवलं ब्रह्म, ब्रह्मणोऽव्यक्तं, अव्यक्तान्महानू , महतोऽहंकारः ॥ उपसंहारः अहमेव परं ब्रह्म ब्रह्माहमिति संस्थितिः । समाधिस्स तु विज्ञेयस्सर्ववृत्तिविवर्जितः ॥ ब्रह्म संपद्यते योगी न भूयस्संसृतिं व्रजेत् । एवं विशोध्य तत्त्वानि योगी निस्स्पृहचेतसा ॥ यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यते । ग्राह्यभावे मनः प्राणो निश्चयज्ञानसंयुतः॥ शुद्धसत्त्वे परे लीनो जीवस्सैन्धवपिण्डवत् । मोहजालिकसंघातो विश्वं पश्यति स्वप्नवत् ॥ सुषुप्तिवद्यश्चरति स्वभावपरनिश्चयः।। निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुते ॥ इत्युपनिषत् ॥ त्रिशिखिब्राह्मणोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः त्रिशिखिनामकब्राह्मणसूर्यप्रश्नोत्तररूपायामस्थामुपनिषदि देहस्वरूपादिकमभिधाय पञ्चीकरणप्रक्रियां सङ्गहेण प्रकाश्य तत्त्वानि निरूप्य अष्टाङ्गयोगमपि विस्तरेण बहुभिः पद्यैरुपवर्ण्य योगसिद्धिक्रमश्च प्रतिपादितो दृश्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत्समग्रा, शुक्लयजुश्शाखान्तर्गतेति मुद्रिता च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy