SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 320 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः Lines on a page-15. Letters in a line-50. Age of Ms.--Old. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incomplete___Complete. उपक्रमः पूर्णमद इति शान्तिः ॥ अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं पारस मेत्योवाच । तमाह भगवानारायणो योऽयमवधूतमार्गस्था लोके दुर्लभतरो न तु बाहुब्यो योको भवति स एव नित्यपूतस्स एव वैराग्यमूर्तिस्स एव ज्ञानाकारस्स एव वेदपुरुष इति ज्ञानिनो मन्यन्ते । महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते । अहं च तस्मिन्नेवावस्थितः ॥ उपसंहार: त्यक्तवर्णाश्रमाचारस्सर्वदा दिवानक्तं समत्वेनास्वप्नः सर्वत्र सर्वदा संचारशीलो देहमात्रावशिष्टो जलस्थलकमण्डलुः सर्वदाऽनुन्मत्तो बालोन्मत्तपिशाचवेदकाकी संवरन्नसम्भाषणपरस्स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन सर्व विस्मृत्य तुरीयातीतोऽवधूतवेषण अद्वैतनिष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यस्सोऽवधूतः स कृतकृत्यो भवात्युपनिषत् ॥ पूर्णमद इति शान्तिः ॥ ॥ तुरीयातीतावधूतोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः पितामहनारायणप्रश्नोत्तररूपतया परिदृश्यमानायामस्यामुपनिषदि ब्रह्मज्ञानवैराग्ययोः प्रशंसनाय संन्यास्यवान्तरभेदानां कुटीचकादीनां वृत्तं क्रमेणाश्रित्य अन्ते सर्वमपि परित्यज्य दिगम्बरो भूत्वा त्यक्तवर्णाश्रमाचारो गोवृत्त्या प्राणधारणां कुर्वन् बालोन्मत्तादिवत्संचरन् प्रणवानुसंधानेन देहं त्यजति यस्स तुरीयावधूत इत्यवधूतस्वरूपवृत्तादिकं प्रतिपाद्यते ॥ वक्तव्यविशेषः-- अस्मिन् कोशे इयमुपनिषत् समग्रा पारदृश्यते, शुक्लयजुश्शाखी. येतीयमुपनिषन्मुद्रिता च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy