SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपसंहारः सोऽयमनूचानाय ब्रह्मचारिणं समावर्तमानायाख्येयः । उपाध्यायाय ग्रामवरं सहस्रं श्वेतं चाश्वं प्रदायानुज्ञातो वा यं कामं कामयते तमाप्रोति तमाप्नोति ॥ ॥ सामविधानब्राह्मणं समाप्तम् ॥ प्रतिपाद्यविषयः ब्राह्मणेऽस्मिन् प्रत्येकमष्टभिः खण्डैस्सहितास्त्रयः प्रपाठकाः परिदृश्यन्ते । तत्र प्रथमे प्रपाठके ब्रह्मणः प्रपश्चसृष्टिकथनम्, सृष्टोपजीवनाय सामप्रदानकथनं, क्रुष्टादिस्वराणां स्वरूपध्यानच्छन्दोदेवतानिरूपणम्, यज्ञानाधिकारिणां देवानामजपृनिप्रभृतीनां च श्रेयसे सामाध्ययनादिनिरूपणम् कृच्छ्रातिकृच्छ्रकृच्छ्रातिकृच्छ्राख्यतपोविशेषाणामभिधा नम्, पवमानेष्टिदर्शपूर्णमासाग्निहोत्र प्रतिनिधिसामाध्ययनकथनम्, पाञ्चरात्रिकव्रतानुष्ठानप्रयोगकथनम्, साप्तरात्रिकाणां मासाद्यध्येयानां सप्तसंहितानां च साम्नां विधानम् पातकोपपातकमहापातकादीनां प्रायश्चित्तादिकं चेत्येतत्सर्वमत्र परिदृश्यते ॥ · द्वितीये प्रपाठके - आयुरभिवृद्धिशुद्धयपुनरावृत्तिपुत्त्रमरणाभावरोगोपशान्तिसर्पशस्त्रभयपरिहारबह्नन्न पिपासोद विषमरणाभावक्षेमज - रामृत्युपरिहारवशीकरणकन्योद्वहनशत्रूच्चाटनयशोब्रह्मवर्चसाधिक्यवादिजयपुत्त्रकामनास्वनुष्ठेयाः प्रयोगा अभिधीयन्ते ॥ तृतीये प्रपाठके - धान्यहिरण्यपशुसमृद्धिप्रयोगः, वास्तुशमनप्रयोगः, स्वप्नजाग्रद्विषयपीडापरिहारप्रयोगः, राजाभिषेकप्रयोगः, अद्भुताभिचारशान्तिप्रयोगः, युद्धजयाद्यभीप्सुप्रयोगः, भाविजन्मस्वज्ञानाभावकामनायामग्नेः स्वाधीनकरणे पिशाचबाधापरिहारे जन्मान्तराभावका मनायां स्वेच्छया लोकान्तरगमने च साधकाः प्रयोगा अभिधीयन्ते । तथाऽन्ते सामविधानसंप्रदाय प्रवर्तकाचार्य नामधेयानि च निर्दिश्यन्ते || वक्तव्यविशेष: -- 175 , कोशेऽस्मिन् परिदृश्यमानं सामविधानाख्यं ब्राह्मणं समग्रं दृश्यते । इदं च ब्राह्मणं विंशाख्यं द्वितीयं स्यात्ततः सामविधिर्भवेत् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy