________________
ब्राह्मणं]
GOVERNMENT ORIENTAL LIBRARY, MYSORE
107
Age of Ms. —Not very old. ¡Correct or incorrect—Not so
___Very correct. Condition of Ms.-Good. | Complete or incomplete
i Complete. उपक्रमः
प्रजापतिर्वा इदं त्रयेण वेदेनाजयद्यदस्येदं जितं तत्स ऐक्षतेत्थं चेद्वा अन्ये देवा अनेन वेदेन यक्ष्यन्त इमां वाव ते जिति जेष्यन्ति येयं मम हन्त त्रयस्य रसमाददा इति स भूरित्येव ऋग्वेदस्य रसमादत्त सेयं पृथिव्यभवत् तस्य यो रसः प्राणेदत् साऽग्निरभवद्रसस्य रसः ॥ उपसंहारः___ भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहीति । अग्नि भर्गः । आदित्यो वै भर्गः । चन्द्रमा वै भर्गः । स्वर्धियो यो नः प्रचोदयादिति। यज्ञो वै प्रचोदयति । स्त्री च वै पुरुषश्च प्रजनयतः। भूर्भुवस्सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति । यज्ञो वै प्रचो. दयति । स्त्री च वै पुरुषश्च प्रजनयतः । यो वा एतां सावित्रीमेवं वेद । अप पुनर्मृत्युं तरति सावित्र्या एव सलोकतां जयति सावित्र्या एव सलोकतां जयति ॥ हरिः ओम् ॥
उपनिषद्ाह्मणं समाप्तम् ॥ प्रतिपाद्यविषयः___ अत्र गायत्रीप्रणवादिसामानि तत्र तत्राख्यायिकाप्रदर्शनपूर्वकं यज्ञोपयुक्तानि सामादीनि च निरूप्यन्ते ॥
तथा तत्तत्सामविषयाणि पृथिवीप्राणादिदृष्टयोपासनानि चाभिधीयन्ते । तुरीयाध्याये च दशमेऽनुवाके केनोपनिषदात्मके मनःप्रभृतीन्द्रियप्रवृत्तेस्तत्प्रवर्तकचेतनमन्तरेणानुपपन्नत्वात्प्रवर्तकचेतनरूपपरब्रह्म - विषया ब्रह्मविद्याऽभिधीयते ॥
वक्तव्यविशेषः__ कोशेऽस्मिन् जैमिनीयोपनिषद्राह्मणं समग्रं दृश्यते । ब्राह्मणेऽस्मिन् चत्वारोऽध्यायास्सन्ति । अत्रत्य एव चतुर्थाध्याय दशमानुवाकः केनोपनिषदभिख्यया प्रथते । केनोपनिषदि श्रीशंकराचार्यभाष्ये च 'केनेषितमित्याद्योपनिषत्परब्रह्मविषया वक्तव्येति नवमस्याध्यायस्यारम्भः' इत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com