________________
GOVERNMENT ORIENTAL LIBRARY, MYSORE
105
उपक्रमः
उजहारागमाम्भोधेर्यो धर्मामृतमञ्जसा । न्यायैर्निर्मथ्य भगवान् स प्रसीदतु जैमिनिः ॥
तदाहुः को नु जुहोति कस्मिन् हयत इति, प्राणेनैव जुहोति प्राणे हूयते तद्यदेतदग्नीन्मन्थन्ति यजमानस्यैव तत्प्राणान् जनयन्ति तद्यावद्वै मन्थन्ति न तर्हि प्राणित्यरण्योरेवास्य तर्हि प्राणा भवन्ति तस्य वै मथ्यमानस्य भस्मावशीयतेऽन्नमेवास्य तजायतेऽनं म एतदजनीत्येव तद्विद्याडूमोऽनुनिनर्दति मन एवास्य तजायते मनो म एतदजनीत्येव तद्विद्यादङ्गारोऽनुनिवर्तते चक्षुरेवास्य तज्जायते चक्षुर्म एतदजनीत्येव तद्विद्यात् ॥ उपसंहारः
ते देवाः प्रजापतिमुपेत्याब्रुवन् एकं वाव किल सामास गायत्रमेव यद्वावग्नो गायत्रं शिरोऽभूत्तत्समभूत्तथा न तृतीयसवनं तमब्रुवन् यत इदमादिथाः किमह भविष्यतीति सोऽब्रवीत् छन्दांस्यत्र प्रतिवप्स्यामि छन्दोभिरता आख्या इष्यन्त इति तस्मादेता गायत्रीस्सतीश्छन्दोभिराख्यायन्तेऽथोपगीतेनैव तेऽजयन्त ते सर्व एव साङ्गास्सतनवोऽमृतास्संभवन् सर्वो हैव साङ्गस्सतनुरमृतस्संभवति य एवं वेदैतस्मिंस्तद्यद्विद्वान् श्रेयान् भवतीति ह स्माह शाट्यायांनः ।। प्रतिपाद्यविषय:
जैमिनीयब्राह्मणेऽस्मिन् तत्तदाख्यायिकानिरूपणपूर्वकमग्निहोत्राहोरात्रयज्ञपात्रसायंप्रातराहुत्याज्याहुतिक्षीराहुत्यादिप्रशंसनं, अधिश्रयणात्परं यजमानमरणे वत्सनाशेऽग्नयनुगतावग्निसंसर्गे च प्रायश्चित्तानि, ज्योतिष्टोमषोडश्यतिरात्रोक्थयादीनां प्रशंसनं, तत्र तत्र गेयानि सामान्यप्यभिधीयन्ते ॥ • वक्तव्यविशेषः
कोशेऽस्मिन् जैमिनीयब्राह्मणं समग्रं दृश्यते । सायणार्यपरिगणितेष्वष्टसु सामशाखीयब्राह्मणेष्वेतन्नामधयादर्शनानंद ब्राह्मणं कौथुमशाखीयमिति प्रतिभाति । अत एवात्र कोशे कचित्क्वचित्तलवकाराचार्यनामदर्शनादिदं तलवकारशाखीयं स्यादित्यपि संभाव्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com