SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (२८ ) स च क्रमेणार्थक्रियां कुर्वीत, अक्रमेण वा ?, अन्योऽन्यव्यवच्छेदरूपाणां प्रकारान्तरासम्भवात् । तत्र न तावत् क्रमेण, स हि कालान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात् ; समर्थस्य कालक्षेपाऽयोगात् । कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः । समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थ करोतीति चेत् । न तर्हि तस्य सामर्थ्यम् ; अपरसहकारिसापेक्षवृत्तित्वात ; सापेक्षमसमर्थम् , इति न्यायात् ।। न तेन सहकारिणोऽपेक्ष्यन्ते अपि तु कार्यमेव सहकारिष्वसत्स्वभवत् तानपेक्षत इति चेत् । तत् किं स भावोऽसमर्थः समर्थो वा ? । समर्थश्चेत्, किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते ?, न पुनर्झटिति घटयति । ननु समर्थमपि बीजम्इलाजलानिलादिसहकारिसहितमेवाङ्करं करोति, नान्यथा । तत् किं तस्य सहकारिभिः किश्चिदुपक्रियेत, न वा ? । यदि नोपक्रियेत, तदा सहकारिसनिधानात् प्रागिव, किं न तदाऽप्यर्थक्रियायामुदास्ते ? । उपक्रियेत चेत् सः, तर्हि तैरुपकारोभिन्नो भिन्नो वा क्रियत इति वाच्यम् ?। अभेदे स एव क्रियते । इति लाभमिच्छतो मृलक्षतिरायाता, कृतकत्वेन तस्यानित्यत्वाऽऽपत्तेः। भेदे तु स कथं तस्योपकारः ?, किं न सह्य-विन्ध्यादर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034824
Book TitleMahamohapadhyay Gangadharji ke Jain Darshan ke Vishay me Asatya Aakshepo ke Uttar
Original Sutra AuthorN/A
AuthorSacchidanand Bhikshu
PublisherHarakchand Bhurabhai
Publication Year1913
Total Pages82
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy