________________
प्राचीन प्रमाण "तदा मुख्य ब्राह्मणस्य, धन कोटीशितुः सुतः ।। दुष्ट कृष्णा ऽहिना दष्टो, मृत कल्प इवा ऽभवत् ।।८७॥ पिता ऽगदै र्जाङ्गुलिकः, उपाचरत्समादरात् ॥ घनै रुपायै स्तद् व्यर्थ, मासी दिव खले कृतम् ॥८॥ शिविकायां तमारोप्य, क्रन्दन्तः शोक विहलाः॥ पित प्रभृतयो विप्रा, श्वेलु; प्रेतवनोपरि ॥८६॥ धर्मोन्नत्यै मूरयोऽपि, तं विदित्वा सजीवितम् ॥ शीघ्र माकारयामासु, स्तत्तातं शोकसंकुलम् ॥१०॥ पूज्यै रुक्तं त्वत्सुत श्चे, दुज्जीवति ततो भवान् । किं करोति ? स आह त्वत्किंकरो जीविताऽवधि ॥११॥ सकुटुम्बस्य मे पूज्य दत्तं स्याज्जीवितं तथा ॥ किमन्यत् त्वं पिता माता, त्वं स्वामी त्वंच देवता ॥६॥ स्वपाद चालन जलं, दत्त्वा प्रेषीत्ततो द्विजम् ।। शिबिकायाः समुत्तार्या, ऽभ्यषिश्चत् सर्वतः सुतम् ।।६३॥ पीयूषेणे व तेनाऽथ, संसिक्तः पाद वारिणा॥ विषमुक्तः समुत्तस्थौ, गतनिद्र इवाङ्गवान् ।। ६४ ॥ किमेत दिति पृच्छन्तं, तात स्तं सत मब्रवीत् ॥ वत्स ! स्वच्छाशय ! भवान्, यम मुख गतोऽभवत्
(यमस्य मुखतोऽभवत् ) ॥ ९५ ।। परं कृपावारिधिभिः, सूरिभि गुणभूरिभिः ।। वितीर्ण सकुटुम्बस्य,तवमेऽपिच जीवितम् ॥६६।। इति श्रुत्वा (सरसरी) समुत्थाय विवन्दिषुः ॥ गुरून् गुणगुरून् विपः सर्व विमसमन्वितः ॥ ७॥ भूपीठे विलुठन् भत्तया, सूरीन् वीक्ष्य ससादरम् ॥ पादौ ववन्दे मौलिस्थ, केशमोञ्छन म् ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com