________________
यावत् प्रादुर्भवत । अथ शकादेशानंतरं यद्देवविधेयं तदाह । तएण मित्यादि । ततस्ते देवा देव्यश्च एवमनंतरादितमर्थ श्रुत्वा हृष्ट तुष्ट यावद्धर्षवशविसर्पद्धदयाः अपि संभावनायामेककाः केचन वंदनमभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरूपम् तत्प्रत्ययम् तदस्माभिस्त्रिभुवनभट्टारकस्य कर्त्तव्यमित्येवं निमित्तम् एवं पूजनप्रत्ययं पूजनं गंधमाल्यादिभिः समभ्यर्चनम् एवं सत्कार प्रत्ययं सत्कारः स्तुत्यादिभि गुणोनतिकरणम् सन्मानो मानसप्रीतिविशेषस्तत्प्रत्ययम् दर्शनमदृष्ट पूर्वस्य जिनस्य विलोकनं तत्प्रत्ययम् कुतूहलं तत्र गतेनास्मत्प्रभुणा किंकर्तव्यमित्यात्मकं तत्प्रत्ययम् अप्येककाःशक्रस्य वचनमनुवर्तमानाः नहि प्रभुवचनमुपेक्षणीयमिति भृत्यधर्ममनुश्रयंतः अप्येककाः अन्यमन्यं मित्रमनुवर्तमानाः मित्रगमनानुप्रवृत्ता इत्यर्थः अप्येककाः जीतमेतद्यत् सम्यग्दृष्टिदेवर्जिनजन्ममहे यतनीयम् एवमादीत्यादिकमागमननिमित्तमिति कृत्वा चित्तेऽवधार्य यावच्छब्दात् अकालपरिहीणं चेव सकस्स देविंदस्स देवरण्णो इति ग्राह्यम् । अंतिकं प्रादुर्भवंति ॥ ___ तथा जिससमय भगवान् श्रीऋषभदेव स्वामी का निर्वाण हुआ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com