________________
कम्मेगाहा-पाठसिद्धा-नवरं श्लोकः श्लाघा संयूथो ग्रंथरचना एते च कर्मशिल्पादयोऽर्थास्तद्धितप्रसस्योत्पित्सोनिमित्ती भवंतीसेतद्भेदात्तद्धितजं नामाष्टविधमुच्यते इति भावस्तत्र कर्मतद्धितंजदोसिए सोत्तिए इसादि-दृष्यं पण्यमस्येति दौषिकः सूत्रं पण्यमस्येति सौत्रिक शेषं प्रतीतं नवरं भांडविचारः कर्मास्योति भांडवैचारिक: कौलालानि मृद्भांडानि पण्यमस्येति कौलालिकः अत्र क्वापि तणहारए इसादि पाठो दृश्यते नत्र कश्चिदाह नन्वत्र तद्धितासयो न कश्चिदुपलभ्यते तथा वक्ष्यमाणेष्वपि तुन्नाए तंतुवाए इसादिषु नाय दृश्यते तत् किमिसेवं भूतनाम्नामिहोपन्यासेोऽत्रोच्यते अस्मादेव सूत्रोपन्यासात्तृणानि हरति वहतीसादिकः कश्चिदाद्यव्याकरणदृष्टस्तद्धितोत्पत्तिहेतुभूतोऽर्थों द्रष्टव्यस्ततो यद्यपि साक्षात् तद्धितप्रययो नास्ति तथापि तदुत्पत्तिनिबंधनभूतमर्थमाश्रिसेह तन्निर्देशो न विरुध्यते यदि तद्धितात्पत्तिहेतुरर्थोऽस्ति तर्हि तद्धितोपि कस्मानोत्पद्यत इतिचे लोके इत्थमेव रूढत्वादिति ब्रूमः अथवा अस्मा देवाद्य मुनिप्रणीतसूत्रज्ञापकादेवं जानीयास्तद्धितप्रत्यय एवामी कचित्पतिपत्तव्या इति । अथ शिल्पतद्धित नामोच्यते । वस्त्रं शिल्पमस्योतवास्त्रिका तंत्रीवादनं शिल्पमस्येति तांत्रिका तुन्नाए संतुवाए प्रतीतमाक्षेपपरिहारायुक्तावेव यह पूर्वच कचिद्वाचना विशेष प्रतीतं नाम दृश्यते तद्देशांतर रूढितोऽवसेयम् । अथ श्लाघातद्धित नामोच्यते। समणे इसादि-श्रमणादीनि नामानि श्लाघ्येष्वर्थेषु साध्वादिषु रूढान्यतोऽस्मादेव सूत्रनिबंधनात् श्लाघ्यार्थास्तद्धितास्तदुत्पत्तिहेतुभूतमर्थमात्रं वा अत्रापि प्रतिपत्तव्यम । संयोगतद्धितनाम राज्ञः श्वसुर इसादि-अत्र संबंधरूपः संयोगो गम्यते अत्रापि चास्मादेव ज्ञापकात् तद्धितनामता चित्रं च पूर्वगतं शब्दप्रामृतमप्रसक्षं चातः कथमिह भावना स्वरूपमस्मादृशैः सम्यगवगम्यते ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com