________________
परिमप्राचार्यस्वनिर्णयवत् , सप्तशतीतमे ( ७०० ) हृष्टाब्द एव विद्यमानः सम्भाव्यते । हरिभद्रेण कुमारिलस्य नाम निर्दिष्टमिति तु प्रागेव प्रदर्शितम् । अतश्च, बौद्धतार्किकचूडामणेर्धर्मकीर्त्याचार्यात् , तत्मतिक्षेपकात् महामीमांसककुमारिलाच्च, तदुभयसिद्धान्तालोचनाकारी हरिभद्रोऽर्वाचीनः, इति सुनिश्चितम् ।।
___खुष्टीयसप्तशतीतमाब्द (७०० ) वर्तिनं कुमारिलं हरिभद्रः स्मरति, हरिभद्रं पुन:-अष्टसप्तत्यधिकसप्तशतीतम ( ७७८ ) वृष्टाब्दवर्ती कुवलयमालाकथाकारो दाक्षिण्यचिह्नमरिः। अतो हेतोः, एतयोईयोरन्तराले काले-अर्थात् खुष्टीयाष्टमशताब्दीमध्यभागे-हरिभद्रो विद्यमानो भवेत् , इति निःसन्देहमनुमीयते ।
(३) अन्यच्च-हरिभद्राचार्येण ' नन्दीसूत्र ' नामकजैनागमस्य संक्षिप्तं संस्कृतविवरणं लिखितमस्ति । अस्मिन् विवरणे बहुषु स्थलेषु 'जिनदासगणिमहत्तर ' विरचित-' चूर्णि' नामकमाकृतव्यारूयातोऽनेके प्राकृतपाठास्तदवस्था एव समुद्धृताः सन्ति । इयं च चूर्णि:
'शकराज्ञः (० जस्य) पञ्चसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतिषु नन्यध्ययनचूर्णिः समाप्ता।' इत्यनेनैव तत्पान्तस्थित-मुष्पिकालेखेन, शकीयषष्ठशताब्या अन्तिमप्राये वर्षे --अर्थात् ६७६ वृष्टान्दे ७३३ विक्रमाब्दे वा, विरचिता, इति स्पष्ट ज्ञायते । अयं हि चूर्णिरचनाकालः प्राकृत गाथानिर्दिष्टहरिभद्रीयमृत्युसंवत्सरात् प्रायः सार्द्धशतवर्षप्रामतोऽर्वाचीनः।
अपि नाम चूर्णिरचनानन्तरं पञ्चविंशता पश्चाशति वा वर्वेषु व्यतिक्रान्तेष्वेव हरिभद्रेण स्त्रीय विवरणं विरचितं भवेत् । अतोऽनया गणनयाऽपि हरिभद्रस्य विद्यमानत्वं खष्टीयायामष्टमशताब्द्यामेव सम्पद्यते
एतादृशानामनेकेषां सुनिश्चितबाधकप्रमाणानां सद्भावात् , मसिहप्राकृतगाथानिर्देशानुसारेण हरिभद्रस्य षष्ठशताब्दीवर्तित्वं कथमपि साधयितुं न शक्यते । तथैव कुवलयमालाकथाप्राप्ताऽसन्दि
-
-
४६ नम्दीसूत्रीयस्थविराबल्याः ३७ तनमाथाया व्याख्या हरिभद्रेणेत्थं कृताऽस्ति'जेसि इमो' गाहा, व्याख्या-येषामनुयोगः प्रचरति, अधापि अदभरते वैताट्यादारतः । बहुमगरोह निर्गत प्रसृतं प्रसिद्धं यशो येषां ते बहनगरनिर्गतयशसः। तान् वन्दे। सिधवाचकशिम्यान स्कन्धि छाचार्यान् । कहं पुण तोसे अगुओगो! उच्यते-बारससंवच्छरिए महंते दुभिक्खे काले भत्ता फिडियाणं (!) गहणगुणणणुप्पहाभावतो मुत्ते विपणट्ठ पुणो सुभिक्खे काले जाते महराए महंते साधुसमुरए वंदिलायरियप्पमुहसंघेण जो जं संभरइ। एवं संपडिय कालियमयं। जम्हा-पयं महराप कय तम्हा माहुरीवायणा भण्णइ। सा य खंदिलायरियसंमत त्ति काउं तस्सतिओ अणुओगो भण्णति । अण्णे मणंति जहा सुयं ण णटुं। ताम्म दुन्भिक्खे काले जे अने पहाणा अणुओगधरा ते विणहा । पगे खदिलायारप संधिरे । तेण महुराए पुणो अगुओगो पवत्तिओ ति महुरोवायणा भण्णइ । तस्संतिओ अणुओगी भण्णइ इति गाथार्थः।"
पप सर्वोऽपि प्राकृतपाठो हरिभवसरिणा नन्दीचूर्णितः समुद्धृतः । एवमन्येवरि अनेकेड स्थलो ब्रष्टुं शक्यते । ४७ बृहट्टिप्पनिकानामधेयायां प्राचीनायां जैनवाङ्मयसूच्यामपि एतद्रचनासमयः सल्लिखितः । तथा" नन्दीसूत्रं ७०० [ श्लोकप्रमाणं ] चूर्णिः ७३३ वर्षे कृता, स्तंभ. ( तंमतीर्थ ) विना [अन्यत्र ] मास्ति " (अस्मस्पार्थस्थः प्राचीमा इस्तलेखः ।)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com