________________
द्वितीयो रागविवेकाध्यायः ७. धा पा मा गा सा गा मा धा ना
तु जाह्र ८. धा धा नी गा मा मा मा मा वीज लं -इत्याक्षिप्तिका।
इति भिन्नपड्जः।
भिन्नपञ्चमः मध्यमापश्चमीजात्योः संजातो भिन्नपञ्चमः॥८२॥ धग्रहांशः पञ्चमान्तः पौरवीमूर्छनायुतः । काकल्या कलितः कापि निषादेनाप्यलंकृतः।।८।। प्रसन्नाद्येन संचारिवर्णः शौरिप्रियो रसे । भयानके सबीभत्से सूत्रधारप्रवेशने ।। ८४ ।। ग्रीष्मे प्राक्पहरे गेयो वराटी स्यात् तदुद्भवा ।
(क०) वराटीजनकस्य भिन्नपञ्चमस्य लक्षणे—'काकल्या कलितः कापि निषादेनाप्यलंकृतः' इत्युक्तम् ; तदनुपपन्नम् ; एकस्मिन्नेव रागे एकस्यैव स्वरस्य शुद्धविकृतप्रयोगभेदेनावश्यं रागभेदापातादिति चेत् ; उच्यते-काकल्या कलितः' इत्यनेनास्मिन् ग्रामरागे मन्द्रमध्यमस्थयोनिषादयोः काकलीत्वम् । 'कापि निषादेनाप्यलंकृतः' इत्यनेन तु माध्यमग्रामिकत्वादस्य निषादपर्यन्तायास्तारव्याप्तेर्विद्यमानत्वात् तत्रत्यो निषादः शुद्ध इति विषयव्यवस्थयोपपद्यत इति । तत्र तारनिषादस्योपरि षड्जाभावेन शुद्धतैवेति भावः ॥ ८२-८५ ॥
(सं०) भिन्नपञ्चमं लक्षयति-मध्यमेति | धैवतग्रहांशः । पञ्चमन्यासः ।
10
Scanned by Gitarth Ganga Research Institute