________________
૬૮
संगीतरत्नाकर:
८. सांसां सांसां सां सा सा सा ग ह रं
नां
— इत्याक्षिप्तिका ।
इति मालवकैशिकः ।
[ प्रकरणम्
मालवश्रीः
समस्वरा तारमन्द्रषड्जांशन्यासषड्ज भाक् ।।७३|| इति मालवश्रीः ।
षाडवः
विकारिमध्यमोद्भूतः पाडवो गपदुर्बलः । न्यासांशमध्यमस्तारमध्यमग्रहसंयुतः ॥ ७४ ॥
(क०) मालवश्रीलक्षणे – समस्वरेति । समाः स्वरा यस्यां सा समस्वरा । स्वराणां समत्वमत्राल्पत्वबहुत्वकृतवैषम्यरहितत्वं विवक्षितम् । तेनास्यां षड्जस्यांशत्वेऽपि तदितरेपामपि तत्समबलत्वेन प्रयोगे कृते रक्तिलाभ एव स्यात्, न रक्तिहानिरित्यर्थः । एवं सर्वत्र समस्वरता द्रष्टव्या । तारमन्द्रषड्जा ; तारमन्द्रयोः षड्जौ यस्यां सा तथोक्ता । एतेनास्यास्तारमन्द्रयोरवधिर्दर्शितो भवति । एतावद्विशेषलक्षणम् । अनुक्तमन्यज्जनकान्माल्व कैशिकादूह्यम् ॥ ७३ ॥
(सं०) मालवश्रियं लक्षयति- मालवश्रीरिति । समाः स्वरा यस्याम् । स्वराणां च समत्वं मन्द्रादिष्वेकस्थानोद्भवत्वम्, अल्पत्वबहुत्ववर्जितत्वं वा । तारमन्द्रषड्जेति । एतस्यां षड्जस्य मध्यमत्वं नास्ति ॥ ७३ ॥
(क०) तोडीजनकस्य षाडवस्य लक्षणे - विकारिमध्यमोद्भूत इति । मध्यमाया जातेः शुद्धभेद एकः ; विकृतभेदास्त्रयोविंशतिः । तत्र
Scanned by Gitarth Ganga Research Institute