________________
६४
संगीतरत्नाकरः
[ प्रकरणम्
प्रसन्नाद्यवरोहिभ्यां मुखसंधौ नियुज्यते । मध्यमग्रामरागोऽयं हास्यशृङ्गारकारकः ॥ ६९ ॥ ग्रीष्मेऽह्नः प्रथमे यामे ध्रुवप्रीत्यै तदुद्भवा । मध्यमादिर्मग्रहांशा हाथ मालवकैशिकः ॥ ७० ॥
सां नीधापांधां धांधरि । गांसां । रिगानीसां । सगपपपप निनिपनि सां सां गपसानिधनिनि निरिगासा । पां मं पं निधामा - इत्यालापः ।
मध्यमादेर्जनकस्य मध्यमग्रामाभिधस्य ग्रामरागस्य लक्षणमुक्त्वा तस्यालापकरणाक्षिप्तिकाश्च प्रस्तार्य ' तदुद्भवा मध्यमादिर्मग्रहांशा' इत्येतावदेव मध्यमादेर्लक्षणमुक्तम् । तस्य तावत एवापर्याप्तत्वात् अनुक्तमन्यतो ग्राह्यमिति प्रकृतिविकृतिन्यायेन स्वहेतुभूतान्मध्यमग्रामरागात् काकलीयुतो मन्यासः सौवीरमूर्छनः प्रसन्नाद्यवरोहिभ्यां युतो मुखसंधौ विनियोज्यो हास्य शृङ्गारकारको ग्रीष्मेऽह्नः प्रथमे यामे ध्रुवप्रीत्यै इति सर्वमपि लिङ्गविपरिणामेन ग्राह्यम् । विशेषलक्षणादेव जन्यस्य जनकाद्भदोऽवगन्तव्यः । एवमन्येष्वपि द्रष्टव्यम् । ' प्रसन्नाद्यवरोहिभ्यां युतः' इत्यत्र सौवीर्या गरिसनिधपमेत्यवरोहिवर्णाश्रयणेऽपि, तदनन्तरं मां मां मां इति ' मन्द्रद्वयात् परे तारे प्रसन्ना दि:' इति प्रसन्नादिसंज्ञस्यालंकारप्रयोगस्यापि शक्यत्वान्न विरोधः । एवमन्यत्राप्यूह्यम् ॥ ६७ – ७० ॥
(सं०) कारणभूतग्रामरागसहितानधुनाप्रसिद्धान् कथयितुं प्रतिजानीतेलक्ष्मेति । मध्यमग्रामरागं लक्षयति- गान्धारीति । सौवीरी मध्यमग्रामे प्रथमा मूर्च्छना । मध्यमादि लक्षयति - तदुद्भवेति । तस्मान्मध्यमग्रामरागादुद्भवो यस्याः । मध्यमस्वरो ग्रहोऽंशश्च यस्याः ।। ६७-७० ॥
Scanned by Gitarth Ganga Research Institute
-