________________
२]
द्वितीयो रागविवेकाध्यायः
गौडकैशिकमध्यमः
३९
षड्जमध्यमया सृष्टो गौडकैशिकमध्यमः । षड्जग्रहांशो मन्यासः पूर्णः काकलिना युतः ॥ ४० ॥ प्रसन्नमध्येनारोहिवर्णः षड्जादिमूर्छनः । भयानके च वीरादौ रसे शीतांशुदैवतः ॥ ४१ ॥ यामद्वये मध्यमेऽहो गेयो निःशङ्ककीर्तितः ।
सां सां सघस सघसा सघस रिमागामामा मम धमधरिधaar धनिधनि धमाधमा गधरि धनिध (षड्ज) ससध धससससरिसा सधधससससरिगरिमरि गसगसघसस (मध्यम) मममधमध (ऋषभ) रिरिरिधरिधधनिधध धपधमामा । रीरीरिरिगरिगगधां सासाधधसधधरिधरि । ममधारि रिधानि धनिमधामा । गधारिधानिधा (षड्ज) ससधधसससस | रिगरिमरिगसगसां धसासं (मध्यम) मममधमध (ऋषभ) रिरिरिधरिधधनिधधधस पधमामा । रीरीरिरिगरिगगधासासाधधसधसधधरिधरिममधारिरिधानिधनि मधमा । गधारिधानि धाध (षड्ज) सससससस | रिगरिगरिंगस गसांनिनिनिसनिसससससससससससघसघसारिमममममधाधाध गसगसा । धाधाधमपधमामा - इत्यालापः ।
(सं०) गौडकैशिकमध्य लक्षणं कथयति --- बड़जमध्यमयेति । प्रसन्नमध्ये नालंकारेण सहितः । आरोही वर्णो यस्य स आरोहिवर्णः । शीतांशुश्चन्द्रो देवता यस्मिन् ॥ ४०-४२ ॥
Scanned by Gitarth Ganga Research Institute