________________
३४८
संगीतरत्नाकरः
गीतदोषाः दुष्टं लोकेन शास्त्रेण 'श्रुतिकालविरोधि च ॥ ३७९ ॥ पुनरुक्तं कलाबाह्यं गतक्रममपार्थकम् । ग्राम्यं संदिग्धमित्येवं दशधा गीतदुष्टता ॥ ३८० ॥
इति गीतदोषाः। इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशकश्रीशादेवविरचिते संगीत
रत्नाकरे प्रबन्धाध्यायश्चतुर्थ: अधमरूपकमेदौ । परिवृत्तादीनां लक्षणानि गुणदोषाणां च लक्षणानि स्पष्टार्थानि ॥ ३६१-३८० ॥
एवं प्रबन्धसामान्यविशेषाश्रितलक्षणम् ।
चतुर: कल्लिनाथार्यः प्रत्येकं प्रत्यपादयत् ।। इति श्रीमदभिनवभरताचार्यरायबय(वाग्गेय)कारतोडरमल्ल श्रीमल्लक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ
चतुर्थ: प्रबन्धाध्यायः
(सं०) पञ्चविधरूपकं कथयितुमाह-गुणान्वितमिति । वक्ष्यमाणगुणान्वितं दोषहीनं नवं रूपकपञ्चकमुत्तमं ज्ञातव्यम् । नवेन रागेण धातुमात्वादिभिश्च नवै: रूपकस्य नूतनत्वम् । तेषां नवत्वमाह-रागांशेति । रागांशभेदेन धातुर्नवो भवति । प्रतिपाद्यभेदेन रसालंकारभेदेन मातुर्नवो भवति । लयग्रह भेदेन तालो नवः । तालविश्रामस्य तुल्येन समेन विश्रामेण लयो नवः । छन्दादिभिर्नवै: रचना नवा भवति । उत्तमरूपकस्य त्रैविध्यमाह-रूपकमिति ।
1 कालश्रुतीति सुधाकरपाठः।
Scanned by Gitarth Ganga Research Institute