________________
संगीतरत्नाकरः
(सं०) गणत्रयविकारवत्यास्त्रेताया भेदानाह - त्रेता दशविधेति । त्रेता दशप्रकारा भवति । तानेव प्रकारान् कथयितुं परिभाषामाह - आद्याक्षरेणेति । प्रद्वित्रिणामित्यादिलक्षणे – प्रथमद्वितीयतृतीयगणविकारेण मङ्गला ; प्रथमद्वितीयचतुर्थगणविकारेण रतिमङ्गला ; प्रथमद्वितीयपञ्चमगणविकारेण कलिका ; प्रथमतृतीयचतुर्थगण विकारेण तनुमध्या ; प्रथमतृतीयपञ्चमगणविकारेण वीरश्रीः ; प्रथमचतुर्थपञ्चमगणविकारेण जयमङ्गला ; द्वितीयतृतीयचतुर्थगणविकारेण विजया ; द्वितीयतृतीयपञ्चमगणविकारेण रत्नमाला ; द्वितीयचतुर्थपञ्चमगणविकारेण गुरुमध्या; तृतीयचतुर्थपञ्चमगणविकारेण रतिप्रभेति क्रमोऽनुसंधेयः । चतुर्गणविकारवत्याश्चतुराया भेदान्निरूपयितुमाह — त्यक्त्वैकैकमिति । आद्याद्गणादेकैकं विहाय चतुर्णां विकाराच्चतुरायाः पञ्च भेदा भवन्ति - द्वितीयतृतीयचतुर्थपञ्चमगणविकारेणोत्सवप्रिया । प्रथमतृतीयचतुर्थपञ्चमगणविकारेण महानन्दा | प्रथमद्वितीयचतुर्थ पञ्चमगणविकारेण लहरी । प्रथमद्वितीयतृतीयपञ्चमगणविकारेण जया । प्रथमद्वितीयतृतीयचतुर्थगण विकारेण कुसुमावतीति । पञ्चानामपि विकारेण
स्यात् । एवमेकया एलाया एकत्रिंशद्भेदाः । तिसृणां मेलनात् त्रिनवतिः । अन्यान् विकृतभेदानाह - अन्य इति । अन्ये विकृताः पञ्चदश भेदा भवन्ति । तत्र नादावत्याः पञ्च । हंसावत्याः पञ्च । नन्दावत्याः पञ्च । तानेव भेदानाह-सावित्रीति । संगता गणद्वयविकारवत्येला त्रिधा - सावित्री, पावनी, वातसावित्री चेति । तत्र सवितुः सूर्यस्य गणे जगणे क्षिप्ते सति सावित्री । पवनस्य गणे सगणे क्षिप्ते सति पावनी । उभयोर्गणयोर्निक्षिप्तयोर्वातसावित्री । वासवी एकगण विकारवती जगणे क्षिप्ते सति सावित्री; सगणे क्षिप्ते पावनीत्येवं द्विप्रकारा | एवं नादावत्याः पञ्च भेदा विकृता भवन्ति । हंसावत्यामपि संगता त्रिविधा - व्योमजा वारुणी व्योमवारुणीति । तत्र व्योमदैवत्ये तगणे निक्षिप्ते व्योमजा । वरुणदैवत्ये यगणे निक्षिप्ते वारुणी । तगणयगणयोरुभयोर्निक्षिप्तयोव्योमवारुणीति । वासवी एकगणविकारवत्यपि तगणे निक्षिप्ते व्योमजा । यगणे निक्षिप्ते वारुणीति द्विविधा । एवं हंसावत्याः पञ्च भेदाः । नन्दावत्यामपि पञ्च भेदा भवन्ति । संगता त्रिविधा - वह्निजा, वारुणी, वह्निवारुणी चेति ।
२३८
Scanned by Gitarth Ganga Research Institute