________________
तृतीयः प्रकीर्णकाध्यायः
अथ प्रकीर्णकं कर्णरसायनमनाकुलम् । देशीमार्गाश्रयं वक्ति शार्ङ्गदेवो विदां वरः ॥ १ ॥
वाग्गेयकारलक्षणम्
वाङ् मातुरुच्यते गेयं धातुरित्यभिधीयते । वाचं गेयं च कुरुते यः स वाग्गेयकारकः ॥ २ ॥
1
(क० ) द्वितीयेऽभिहितलक्षणानां ग्रामरागादीनां स्वरूपसाक्षात्कारस्य गातृनिर्मातृपरतन्त्रत्वेन तत्स्वरूपजिज्ञासायां तदादिलक्षणपरं प्रकीर्णकं वर्णयितुं प्रतिजानीते - अथ प्रकीर्णकमित्यादिना । कर्णरसायनत्वेऽनाकुलत्वं हेतुः । अनाकुलत्वं चासंकीर्णतयार्थप्रतिपादनाद्भवति । तेन सुश्राव्यत्वं भवतीत्यर्थः । देशीमार्गाश्रयमिति विशेषणमत्र लिलक्षयिषितानां वाग्गेयकारादीनां देशीमार्गोभयसाधारणत्वात् तल्लक्षणपरस्य ग्रन्थस्यापि देशीमार्गोभयाश्रयत्वेन प्रकीर्णकत्वद्योतनार्थम् । प्रकीर्णकत्वं च ग्रन्थस्य विषयविभागेन विना प्रवृत्तत्वमुच्यते । वक्तीति स्वस्मिन्नपि परत्वारोपेण प्रथमपुरुषनिर्देशः स्वस्य गर्वराहित्यद्योतनाय । यथा – “ केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी " इत्यादि । शार्ङ्गदेवोऽहं वच्मीत्यर्थः। गातृव्यापारविषयगीतनिर्मातृत्वेन प्राधान्यात् प्रथमोद्दिष्टस्य वाग्गेयकारस्य लक्षणं नामनिरुक्तिपूर्वकमाह – वाङ् मातुरित्यादिना । मातुधातुशब्देोद्देशावपि लोकप्रसिद्ध्यनुरोधेन वाग्गेयपर्याये प्रागुक्ताविति मन्तव्यौ ।
Scanned by Gitarth Ganga Research Institute