SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २२४ संगीतरत्नाकरः अथ पड्जकैशिकी अंशाः स्युः षड्जकैशिक्यां षड्जगांधारपञ्चमाः । ऋषभे मध्यमे ऽल्पत्वं धनिपादौ मनाग्वहू ॥ ७९ ॥ चच्चत्पुटः षोडशास्यां कलाः स्युर्विनियोजनम् । प्रावेशिक्यां ध्रुवायां स्यात्प्रेक्षणे तु द्वितीयके ॥ ८० ॥ अस्यां षड्जकैशिक्यां गांधारो न्यासः । षड्जनिषादपञ्चमा अपन्यासाः । प्रागुक्ता गांधारपञ्चमहिन्दोलकदेशीवेलावल्यो दृश्यन्ते । अस्याः मस्तार: ८. १. २. 1 षड्जकैशिकी सा सा मां पां गरि मग मा मा दे [जाति मा मा मा मा सां सां सां सां वं (क० ) अथ संसर्गजविकृतजातिषु प्रथमा षड्जकैशिकी - अंशाः स्युरिति । ऋषभे मध्यमे ऽल्पत्वमिति । इहानंशेषु रिमधनिषु प्राप्तमल्पत्वं रिमयोर्नियम्यते । धनिपादौ मनाग्बहू इति । अंशीभूतसगपापेक्षया ऽल्पत्वमल्पीभूतरिमापेक्षया बहुत्वं धन्योः कर्तव्यमित्यर्थः । चच्चत्पुट इत्यादि । स्पष्टोऽर्थः ॥ ७९, ८० ॥ (सु० ) षड्जकैशिक लक्षयति — अंशाः स्युरिति । षड्जकैशिक्यां षड्जगांधारपञ्जमा अंशा: ; ऋषभमध्यमयोरल्पत्वम् ; धैवतनिषादयोः किंचिद्बहुत्वम् । चञ्च्चत्पुटस्तालः । षोडश कलाः । प्रावेशिक्यां ध्रुवायां द्वितीयप्रेक्षणे विनियोगः ॥ ७९, ८० ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy