SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ क्रमतानाः ४] प्रथमः स्वरगताध्यायः १२५ ननु शुद्धमध्याया इत्यनेनैव पड्जादित्वे सिद्धे षड्जादेरिति विशेषणं व्यर्थमिति चेत् , न ; अशुद्धमध्यायाः प्रथमादिस्वरारम्भक्रमाक्रमसप्तकवत्त्वेन तावत्येवोक्तक्रमविषयः संदेहः स्यात् ; तन्निवर्तकत्वेन विशेषणमर्थवदिति । एवं न्यादिमार्गीत्यत्र धैवतादेस्तु पौरव्या इत्यत्राप्यवगन्तव्यम् ॥ -४९-५४ ॥ (सु०) एकस्वरास्तु भेदाभावाच्चतुर्दशैव भवन्तीत्याह-एकस्वगस्त्विति । एवं क्रमः पुनरुक्तैश्च सह लक्षत्रयं द्वाविंशतिः सहस्राणि पञ्च शतानि द्वयशीतिश्च (३२२५८२) भेदा भवन्ति । एतेषु पृथकर्तुं पुनरुक्तान्कूटतानान्कथयति-- षड्जादेरिति । मध्यमग्रामे चतुर्थी मूर्च्छना षड्जादिः शुद्धमध्या। तस्याश्चतुःस्वरं क्रमद्वयं शुद्धं सान्तरं च । तत्र ग्रामद्वयमूछनानां भेदकं चतुःश्रुतिकत्वेन त्रिश्रुतिकत्वेन च द्विविधं पञ्चमं विना ऽष्टाचत्वारिंशद्भेदाः पुनरुक्ताः ॥ -४९-६० ॥ त्रिस्वरयोस्तु द्वयोः क्रमयोः शुद्धसान्तरयोदश भेदाः पुनरुक्ताः । द्विस्वरे निषादगांधारहीनत्वादेकस्मिन्प्रामे भेदद्वयं पुनरुक्तम् । एकस्वरस्त्वेक एव पुनरुक्तः । एवं शुद्धमध्यायास्त्रिषष्टिर्भदाः । औत्तरमन्द्रकैः षड्जग्रामे प्रथममूर्च्छनोत्तरमन्द्रा षड्जादिभिरेव तत्संबन्धिभिः कूटतानैः सह पुनरुक्ताः । अन्यानपि पुनरुक्तान्गणयति-न्यादिमार्गीति | मध्यमग्रामे निषादादिर्हि पञ्चमी मूर्च्छना मार्गी । तस्यां पञ्चस्वराश्चत्वारः क्रमा भवन्ति, निषादगांधारयुक्तत्वात् । तेषां भेदा अशीत्यभ्यधिकं शतचतुष्टयम् । चतु:स्वरसंबन्धिनी चातुःस्वरी षण्णवतिः । कूटतानानां पुनरुक्ताश्चतुःस्वरा अपि निषादगांधारयुक्तत्वाच्चत्वारः क्रमा: । प्रतिक्रमं च चतुर्विशतिर्भेदा: । अतः षण्णवते: पौनरुक्त्यम् । त्रिस्वरं तु क्रमद्वयमेव, निषादयुक्तत्वात् । तत्र द्वादश भेदाः । द्विस्वरं क्रमद्वयं निषादयुक्तत्वात् । तस्य चत्वारो भेदाः । एकस्वर एक एव । यद्यपि निषादस्य शुद्धत्वेन काकलीत्वेन च द्वैविध्यं संभवति, तथा ऽप्येकस्वरस्य क्रमत्वेनानुपेयत्वान्न भेदादरः । एवं त्रिनवत्या युता पञ्चशती रजनीगतैस्तानैः सह पुनरुक्ताः । रजनी षड्जग्रामे द्वितीया मूर्च्छना निषादादिः ॥ ५१-५४ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy