________________
मेदपाटदेशाधीश्वर-श्रीकुम्भकर्णनृपति-विरचितः
नत्य रत्न कोशः।
10
तृतीयोल्लासे प्रथमं परीक्षणम् ।
[मङ्गलम् ।] यस्मिन् समस्तकरणानि न कारणानि योऽनङ्गहारविजयी च नवाङ्गहारः। यश्चाङ्गहाररुचिरामलनृत्यकारी नारीकृतार्थतनुमीशमहं नुवे तम् ॥ करणान्यथ वक्ष्यन्ते नृत्यस्य करणानि वै । शुद्धानि भरतोक्तानि वसुखेन्दु' १०८ मितानि च ॥ करपादाद्यङ्गकस्य क्रिया रसनिरन्तरा । सविलासानुकरणं नृत्यादि करणं तु तत् । अथोदेशं वदे तेषां लक्षणं च सविस्तरम् ॥
. [शुद्धकरणानि ।] तलंपुष्पपुटं लीनं वर्तितं वलितोरु च । मण्डलखस्तिकं वक्षःस्वस्तिकं खस्तिकं ततः॥ आक्षिप्तरेचितं पृष्ठस्वस्तिकं चार्धपूर्वकम् । खस्तिकं दिक्खस्तिकं चोन्मत्तं समनखं ततः॥ अपविद्धं सञ्चितं च तथा स्वस्तिकरेचितम् । निकुद्दमर्धनिकुटुं कटिच्छिन्नं कटीसमम् ॥ विक्षिप्ताक्षिप्तकं नाम भुजङ्गत्रासितं तथा। अलातं निकुश्चितं च घूर्णितं चारेचितम् ॥ ऊर्ध्वजान्वर्धमत्तल्लि स्याद्रेचकनिकुहितम् । मत्तल्लि ललितं चैव वलितं दण्डपक्षकम् ॥
-
.. ... 1 AB put १०८ after वसु। 2 AB °त्याद। 3 0 °देशवदे। 4 B मतः । 5AB उन्नतं ।