________________
२७१
मानसोल्लासः ।
[ अध्यायः १४ एते मत्स्था महाकायाश्चर्मजा निम्नगोद्भवाः । पाटल:(ल) पिच्छकस्त्वेकस्तथाऽन्यो दन्तपाटलैः ॥ ८७॥ मध्यकायाविमौ मत्स्यौ नदीजी चर्मसम्भवौ । गाग्धरो गोजलश्चैव विद्रुवश्च तथापरः ॥ ८८ ॥ मत्स्यः कण्ठस्यश्चेति स्वल्पकाया नदोद्भवाः । पण्डिमानो महाकायः शल्कोः सागरोद्भवाः ॥ ८९ ।। पल्लैकस्तोमरश्चेति मध्यकायौ समुद्रजौ । महाशीलकलवैश्च नाडको बडिशस्तथा ॥१३९० ॥ वटगिश्च महाकायाः सशल्काः सरिदुद्भवाः । रोहितः स्वर्णमीनैश्च तथा बण्डालिपोऽपरः ॥ ९१ ॥ मध्यकायाः सशल्कास्ते बलवन्तो नदीचराः। मरिलेस्तुम्बयो वाश्चि शल्कजा मध्यविग्रहाः ॥ ९२ ॥ एते त्रयो न खादन्ति पिष्टि(ट)मामिषभोजिनः । कौरत्थश्च महानद्या सङ्गतस्य महीभृतः ॥ ९३ ॥ षट् सप्त योजने(न) यावन्नदीमायाति सागरात् । गम्भीरेषु विशालेषु इदेषु विलसन्ति ते ॥ ९४ ॥ तेषां सङ्ग्रहणे स्थानमिदमेव न सागरः । नद्यां कर्दमहीनायां सशिलायां भवन्ति ते ॥ ९५ ॥ कोवाकीर्यों महाकायाः सशल्का मध्यजातयः। शिलासङ्घके स्थाने गम्भीरे कोरकादयः॥ ९६ ॥ वालुकाबहुले तोये गम्भीरे रोहितादयः। सपङ्क च सुविस्तीर्णे प्रवाहँरहिते इदे ॥ ९७ ॥ पाठीनप्रमुखा मत्स्या निवसन्ति सकच्छपाः । पाषाणप्रान्तविवरे नाभिदघ्नोदके तथा ॥ ९८॥
१ A स्त्व । २ A ल। ३ A दि । ४D ग। ५ Dज । ६A दु। ७D य। ८A दाभ । Aण्डी। १.D जः। ११ Dः। १२Dल्ला। १३ A शि। १४ D ह्रस्व । १५A स्ता। १६ A पर। १७D मा । १८D षष्ठा। १९D लि। २. Dचो। २१ D कोल । २२ A श्च ।
A ता। २४ A न्ति । २५ A सि । २६ A द्या । २७ D शी। २८ D कट । २९ A ल। ३.A के। ३१ A स्त। ३२ A है। ३३ A त्सयी।
Aho! Shrutgyanam