________________
नमस्कारमाहात्म्ये
॥७॥
या सप्तनयवैदग्धी, या परागमचातुरी । या द्वादशाङ्गी-सूत्राप्तिः, त्रोपाध्यायाहते कुतः १ ॥ ६ ॥ 'णं' - कारोऽत्र दिशत्येवं, त्रिरेखोऽम्बरशेखरः । विनयश्रुतशीलाद्याः, महानन्दाय जाग्रति ॥ ७ ॥ सप्तरज्जूर्ध्वलोकाऽध्वो- द्योतदीपमहोज्ज्वला । सप्ताक्षरी चतुर्थी मे, हियाद् व्यसनसप्तकम् ॥ ८ ॥ इति चतुर्थः प्रकाशः समाप्तः ।
पञ्चमः प्रकाशः
न व्याधिर्न च दौर्विध्यं न वियोगः प्रियैः समम् । न दुर्भगत्वं नोद्वेगः, साधूपास्तिकृतां नृणाम् ॥ १ ॥ न चतुर्द्धा दुःखतमो, नराणामन्ध्यहेतवे । साधुध्यानामृतरसा - ऽञ्जनलिप्तमनोदृशाम् ॥ २ ॥ मोक्तारः सर्वसङ्गानां मोध्या नोऽऽन्तरवैरिणाम् । मोदन्ते मुनयः कामं, मोक्षलक्ष्मीकटाक्षिताः ॥ ३ ॥ लोभद्रुमनदी वेगाः, लोकोत्तरचरित्रिणः । लोकोत्तमास्तृतीयास्ते, लोपं तन्वन्तु पाप्मनाम् ॥ ४ ॥ एकान्ते रमते स्वैरं मृगेण मनसा समम् । मूलोत्तरगुणग्रामा -ऽऽरामेषु भगवान् मुनिः ॥ ५ ॥ एकत्वं यदिदं साधौ, संविग्ने श्रुतपारगे । तत्साक्षाद् दक्षिणावर्त्ते, शङ्खे सिद्धसरिजलम् ।। ६ ।। एको न क्रोधविधुरो, नैको मानं तनोति वा । एको न दम्भसंरम्भी, तृष्णा मुष्णाति नैककम् ॥ ७ ॥
पश्चमः प्रकाशः ।
॥ ७ ॥