________________
मलय
॥ ६॥
80% 103808686260444*606454606
नेहक् कर्त्तुं न्यायवतोर्यतः । अन्यथा भवितानर्थो महान् लोभवशात्मनोः ॥ ४९ ॥ ब्रुवाणावुत्तरंतौ तु तदेव कुपितो नरः । स्तंभयित्वा तथा सोऽगा - द्यथालं चलितुं न तौ ॥ ५० ॥ तथा चलयतो नांगं विस्फुटत्संधिबंधनं । जल्पताविति तौ दोनों पात पात म्रियावहे ॥ ५१ ॥ ग्रामांतरादितश्चा|गा - लोभाकरसुतोऽखिलां । वार्त्ता कुटुंबादज्ञासी - तथावस्थौ विलोकितौ ॥ ५२ ॥ मंत्रवादादिके तेन सविशेषेऽथ कारिते । विशेषाद्ववृधे पीडा निराशास्तेऽभवंस्ततः ॥ ५३ ॥ उत्तिष्टते यतो वह्निस्तत एवोपशाम्यति । अतस्तमेव पुरुष - मानयामि कुतोऽप्यहं ॥ ५४ ॥ ध्यात्वेति गुणावर्मा तं नरं दृष्टुमथाचलत् । सहायमेकमादाय तत्पुरुषोपलक्षकं ॥ ५५ ॥ मंदीभूतं सहायं तमपि मुक्त्वा क्वचित्पुरे । एक एव स बभ्राम पितुर्दुःखेन दुःखितः ॥ ५६ ॥
अथैकं नगरं दृष्ट्वा धनाढ्यापणमंदिरं । निर्मानुषं रम्यतमं विस्मितः प्रविवेश सः ॥५७॥ ददशैकं नरं तत्र प्रदेशे सुंदरं क्वचित् । पप्रच्छे च स तेनैवं कुतस्त्वं वीरकुंजर ॥ ५८ ॥ अभाणि श्रेष्टिपुत्रेण पांथः खिन्न इहाविशं । कोऽसि त्वं किमिहैंकाकी शून्या ऋद्धापि का पुरी ॥ ५९ ॥ नरेणा
चरित्रं
॥ ६॥