________________
मलय
मस्या उपरि स्त्रियाः । येनैषा ते सखा कर्मवनोन्मूलनकर्मणि ।। ६२ । बाह्यांगं वलयन् धर्मदेह
| माभ्यंतरं न च । ज्वलनोऽप्यहितं किंचित्करोत्येष न तेऽधुना ॥६३ ॥ इत्थं तदा भृशं तस्य प्रवृत्ता १२१६॥
शुभभावना । उत्पन्नं केवलज्ञानं घातिकर्मक्षयाद्यथा ॥ ६४ ॥ शुक्लध्यानानले मध्ये बहिश्च ज्वलितेऽनले । भवोपग्राहिकर्माणि भस्मीकृत्य क्षणादपि ॥६५॥ अंतकृत्केवली भूत्वा स साधः प्राप
निर्वृतिं । जन्मभृत्युजरादीनां ददौ चाशु जलांजलिं ॥ ६६ ॥ युग्मं ॥ ज्वलने ज्वलितप्राये कांदिHशीका गता क्वचित् । पापिष्टा कनकवती सा भ्रष्टा शुभकर्मतः॥६७ ॥ संजातेऽथ प्रभाते स
| यावच्छतबलो नृपः। तत्रागात्सपरीवारः खपितुर्दर्शनोत्सुकः ॥ ६८॥ भश्मराशिस्थितं तावद् | दृष्ट्वा दग्धं मुनेर्वपुः। परिवारयुतो राजा वक्तुं लग्नो ध्रसत्कृतः ॥ ६९ ॥ निर्भयेन भवभ्रांतेर्निनिमि| तारिणा निशि । नूनमेष महासाधुराः केनाप्युपसर्गितः ॥ ७० ॥ निष्पुण्येन मया तात! भवतां पादपंकजं । लब्ध्वापि दुर्लभं नैव नतमागत्य हा द्रुतं ॥७१ ॥ युष्माकं पतिता दृष्टिः प्रसन्ना न ममोपरि । मया कर्णपुटाभ्यां च न पीतं वचनामृतं ॥७२॥ मनोरथा विलीना मे रोरस्येवाधुना हृदि ।
॥२१६॥